Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 115
________________ प्रकरणत्रयी [88] सिरिजिणहंसमुणीसररज्जेसिरिधवलचंदसीसेण / गजसारेण लिहिआ एसा विनत्ति अप्पहिआ // 40 // श्रीजिनहंसमरिमुनीश्वरराज्ये गजसारेण एषा विज्ञप्तिलिखिता, किंविशिष्टा विज्ञप्तिः ? आत्महिता-आत्मनः हिता हितकारिका उपलक्षणत्वात्परेषां च किंविशिष्टेन गजसारेण ? श्रीधवलचन्द्रनामाप्राग्वाटवंशीयोपाध्यायस्तस्य शिष्येणेति // 35 // दुर्घटं दण्ड कस्तोत्रं व्याख्यातुं येन तेन च / न शक्यते स्फुरबोधाभावेन भविनां पुरः // 1 // प्रयाति सुगमं तस्माद् व्याख्यानं विहितं स्फुटं / स्वयं व्याख्यानयन्तु द्राक् श्रीगुरोर्वाचनां विना // 2 // संवतिरस्य(स)निधिगुहमुखसोम[१६१६]मिते नभसि कृष्णपक्षे च / अमदावादे हाजापटेलपोलीस्थशालायां / / 3 / / श्रीमत्खरतरगच्छाधीश्वरजिन चन्द्रसूरिशिष्योऽभूत् / . गणिः सकलचन्द्रनामा रीहडगोत्री च पुण्यात्मा // 4 // तच्छिष्यसमयसुन्दर एतां वृत्तिं चकार चारुतया / अतिसुगमां सुबोधां पठन्तु भो ! पाठयन्तु द्राक् / / 5 / / इति श्रीसमयसुन्दरोपाध्यायकता दण्डकस्तोत्रवृत्तिः।' श्रीरस्तु कल्याणमस्तु / / श्री॥ 1. प्रतावन्ते संवत् 1939 मिति-श्रावण सुदि नवम्यां तिथौ श्रीबीकानेर मध्ये लिषता पं. धनसुखस्वहेतवे /

Loading...

Page Navigation
1 ... 113 114 115 116