Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ प्रकरणत्रयी [82] मुर-नर-तिर्यग्र-नरकेषु षट्पर्याप्तयो भवन्ति तथा स्थावरे पृथिव्यादिपञ्चके भाषा-मनःपर्याप्तिद्वयरहिताश्चतस्रो भवन्ति // 26 // तथा विकले द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियरूपे मनो विना पञ्च / पर्याप्तयो भवन्ति इति एकोनविंशतितम पर्याप्तिद्वारम् 19 / / अथ विंशतितमं किमाहारेत्ति द्वारमाह-- छद्दिसि आहारहोइ सव्वेसि / पणगाइपए भयगा। सर्वेषां चतुर्विंशति दण्डकानां षटभ्यों दिग्भ्य आगतानां पुद्गलानामाहारो भवति, पंचदिगादिके आहारे भजना, अयं परमार्थ:--लोकान्तवर्तिनां जीवानां पञ्चदिशो भवति, लोकनिष्कुटस्थानानां चतुर्दिकोऽपि भवति इति किमाहारद्वारं 20 // अथैकविंशतितमं संज्ञारूपं द्वारमाह--' अह सन्नितिअं भणिस्सामि // 27 // चउविहसुरतिरिएसु नरएसु अदीहकालिगीसन्ना / विगले हेउवएसा सन्नारहिया थिरा सव्वे // 28 // अथ ग्रन्थकर्ता वक्ति-अहं संज्ञात्रिकं चतुर्विंशतिदण्डकेषु वक्ष्यामि // 27 // तथाहि-चतुर्विधसुरेषु तिर्यक्षु नरकेषु च दीर्घकालिकी संज्ञा भवति, यस्यां दीर्घकालोऽतीतोऽनागतो वर्तमानो विषयो ज्ञेयतया इति व्युत्पत्तेः,
Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116