Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 108
________________ [81] दण्डक वृ. 'तिदिणग्गित्ति'-अग्नेः त्रीण्यहोरात्राणि, तथा नरतिरिइति नराणां तिरश्वां च त्रीणि पल्योपमानि देवकुरूत्तरकुरुयुगलिकापेक्षया तथा सुरनिरयसागर तित्तिसात्ति'-मुराणां नारकाणां चायुरुत्कृष्टं त्रयस्त्रिंशत्सागरोपमाणीदं च सर्वार्थविमान-सप्तमनरकापेक्षं चानुक्रमेण ज्ञेयं, व्यन्तराणां पल्योपमं, ज्योतिषां वर्षलक्षाधिकं पल्यं चन्द्रापेक्षया // 23 // तथा असुराणां चमरादीनां साधिक सागरोपमं, तथा नवनिकाये उत्तरदिशि देशोनं पल्योपमद्वयं, . दक्षिणदिशि तु साधं पल्योपमं, तथा 'बारसवासाणुपणंदिणछमामुक्टिविगलाऊ'-विकलानां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणामुत्कृष्टमायुरक्रनुमेणैवं ज्ञातव्य, तथाहि-द्वीन्द्रियाणां द्वादशवर्षाणि, त्रीन्द्रियाणामेकोनपश्चाशदिनानि, चतुरिन्द्रियाणां षट्मासाः // 24 // . अथ चतुर्विंशतिदण्डकानां जंघन्यां स्थितिमाह-'पुढवाईदसपयाणंपृथिव्यादिदशपदानां पृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियगर्भनतिर्यगमनुष्यरूपाणां जघन्यायुःस्थितिरेकमन्तर्मुहूर्त, तथा भवनाधिपा नारका व्यन्तराश्च दशसहस्रवर्षस्थितिकाः एतेषां दशवर्षसहस्राण्यायुरित्यर्थः // 25 // तथा 'वेमाणिअजोइसिअपल्लतयटुंसआउआ होति' अयमर्थः-वैमानिकदेवानां जघन्यमायुः पल्योपम, ज्योतिषां चानुक्रमेण पल्योपमस्याटमोभागः इत्यष्टादशं द्वारम् // 18 // अथैकोनविंशतितमं पर्याप्तिरूपं द्वारमाह सुरनरतिरिनिरएसु छपज्जत्ती थावरे चउगं // 26 // __विगले पंच पज्जत्ती।

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116