Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 102
________________ [75] दडण्क वृ. वायु-विकलाः वैमानिकाच त्रिलेश्याः, अत्र विशेषतो विवेचनं क्रियते, तथाहि-प्रथमायां द्वितीयायां च नरकपृथिव्याँ [कापोता तृतीयस्यामुपरि कापोताऽधोनीला]' चतुर्थ्यां नीला, पञ्चम्यां नीला कृष्णा, षष्ठीसप्तम्योः पृथिव्योः कृष्णैव / तेनोवायु-विकलाः कृष्ण-नील-कापोतलेश्यावन्तः / वैमानिका अनेनप्रकारेण त्रिलेश्याः अयमर्थः-सौधर्मेशानयोः तेजोलेश्या, ततः कल्पत्रये पद्मा, ततो लान्तकादिषु कल्पेषु एका शुक्लैव / / 14 // ___ज्योतिष्का तेजोलेश्याः, 'सेसा सव्वेवि डंति चउलेसा'-शेषा उक्तव्यतिरिक्ताः, के इत्याह-पृथिव्यपवनस्पतिभवनपतिव्यन्तराः ते चतुर्लेश्याः, कथमित्याह-आदिलेश्यात्रयं स्वाभाविकं पृथिव्यपूवनस्पतिषु वर्तत एव, अथ केचित् तेजोलेश्यावन्तो देवा एतत्त्रयेषूत्पद्यन्तेतत उत्पत्तिसमयेऽन्तर्मुहतं पूर्वभविका तेजोलेश्या भवति, भवनपतिव्यन्तरास्तु स्वभावतश्चतुर्लेश्या एव इति सप्तमं द्वारं सम्पूर्णम् 7 // अथाष्टमं द्वारं प्राह इंदियदारं सुगमं / एकेन्द्रिये पृथिव्यप्तेजोवायुवनस्पतिरूपे एक स्पर्शनेन्द्रियं तथा द्वीन्द्रिये शंखप्रमुखे स्पर्शन-रसने ई इन्द्रिये, अथ त्रीन्द्रिये कीटिकाजूकादिके स्पर्शन-रसन-घ्राणानि त्रीणीन्द्रियाणि, [चतुरिन्द्रिये भ्रमरादिके स्पर्शन-रसन-घ्राण-चक्षूरूपाणि चत्वारीन्द्रियाणि] पश्चेन्द्रिये नारक-तिर्यग-मनुष्य-देवरूपे स्पर्शन-रसन-प्राण-चक्षुः-श्रोत्राणि पञ्चेन्द्रियाणि भवन्ति इति अष्टमं इन्द्रियद्वारं सम्पूर्णम् 8 / 1 पाठोऽयं योजितः स्वोपज्ञवृत्त्यनुसारेण, यतः मूलप्रतावेतत्स्थाने ‘कृष्ण नीलकापोतलेश्यात्रयं भवति तृती(या)यां तु पृथिव्यां उपरिप्रस्तरेषु एका कापोत्ता तृतीयायां कापोता नीला च" एवं लिखितः /

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116