Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ - [77] दण्डक वृ. अयमर्थः-विकले द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियरूपे सम्यगद्रष्टि 1 मिथ्याद्रष्टि 2 रूपं द्रष्टिद्वयं भवति, तथा 'थावर मिच्छत्ती' स्थावराः पृथिव्यपूतेजोवायुवनस्पतयः मिथ्यात्विनः, तथा 'सेस तियदिट्ठी'शेषाः नारकसुतिर्यगमनुष्यरूपाः षोडश दण्डकाः द्रष्टित्रयवन्तः इति दशम द्वारं सम्पूर्णम् 10 // 16 // अथैकादशं दर्शनद्वारमाहथावरबितिसु अचक्खू चउरिंदिसु तदुगं सुए भणियं / मणुआ चउदंसणिणो सेसेसु तिगं तिगं भणियं // 17 // स्थावराः पृथिव्यपूतेजोवायुवनस्पतिरूपाः पञ्च द्वीन्द्रियत्रीन्द्रियाचैतेषु सप्तदण्डकेमु एकं अचक्षुर्दर्शनं भवति, तथा चउरिदिसु तद्दुगं चतुरिन्द्रियेषु तयोश्चक्षुर्दर्शनाऽचक्षुर्दर्शनयोदिकं श्रुते प्रज्ञापनादौ भणितं, तथा मनुष्याश्चतुर्दर्शनिनः चक्षुर्दर्शन 1 अचक्षुर्दर्शन 2 अवधिदर्शन 3 केवलदर्शनवंतो 4 भवन्ति, शेषेषु दण्डकेषु नारक-सुर-तिर्यगूरूपेषु पञ्चदशदण्ड केषु चक्षुर्दर्शन 1 अचक्षुर्दर्शन 2 अवधिदर्शन 3 रूपं दर्शनत्रयं भवति केवलं न स्यात् इति एकादशं द्वारम् // 17 // अथ ज्ञानाज्ञानयोार द्वयं द्वादशत्रयोदशरूपं सम्मिलितमेवाह-- अन्नाणनाण तिअ तिअ सुरतिरिनिरए थिरे अनाणदुगं नाणन्नाण दुविगले मणुए पणनाणतिअनाणा // 18 // सुर-तिर्यग्-नरके पञ्चदशदण्डके अज्ञानत्रिकं यथा-मत्यज्ञानश्रुताज्ञान-विभंगज्ञानरूपं ज्ञानत्रिकं च मतिज्ञान-श्रुतज्ञान-अवधिज्ञानरूपं च भवति /
Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116