Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ प्रकरणत्रयी [78] ननु ज्ञानाज्ञानयोः परस्परं विरोधात् कथं द्वयमपि पञ्चदशदण्डकेषु एकत्वं भवति ? उच्यते-एतेषां मध्ये यस्मिन् दण्डके सम्यक्त्वं तत्र ज्ञानं यत्र च मिथ्यात्वं तत्राज्ञानं ततो न विरोधः। ___तथा स्थिरे पृथिव्यादिपञ्चकरूपे अज्ञानद्वयं मत्यज्ञानं श्रुताज्ञानं च इह यद्यपि सिद्धान्ताभिप्रायेण पृथिवी-जल-वनस्पतिषु सम्यक्त्वं वमतां देवानामुत्पादे सास्वादनसद्भावाच्च मति-श्रुतज्ञाने भवतः परमत्र नाधिकृते, तथा नाणनाणदुविगले' विकले द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपे ज्ञानमज्ञानं च द्वयमपि स्यात् तेषां सम्यक्त्वे सति, ज्ञानं मिथ्यात्वे सत्यज्ञानं, तथा मनुष्ये ज्ञानपञ्चकं परं सम्यक्त्वे सति, मनुष्येऽज्ञानत्रयमपि परं मिथ्यात्वे सति इति द्वादशं त्रयोदशं च द्वारम् 12-13 // 18 // ___ अथ चतुर्दशयोगद्वारमाह-- इक्कारस सुरनिरएतिरिएसु तेर पनर मणुएसुं / विगले चउ पण वाए जोगतिगं थावरे होइ // 19 // __ 'सुर-नरए'-चतुर्दशदण्डके एकादशयोगा भवन्ति / औदारिकऔदारिकमिश्र-आहारक-आहारक मिश्राणां चतुर्णामभावात् / तथा तिरिएसु तेर-तिर्यक्षु त्रयोदशयोगाः :आहारक-आहारकमिश्रयोः अभावात् , मनुष्येषु पञ्चदश योगाः भवन्ति, विकलेषु चत्वारो योगाः के इत्याह-औदारिक 1 औदारिकमिश्र 2 कार्मण 3 असत्यामृषाभाषारूषाः 4 तथा 'पणवाए'-चायौ पश्च योगाः औदारिक 1 औदारिकमिश्र 2 वैक्रिय 3 वैक्रियमिश्र 4 कार्मण 5 रूपाः, तथा 'जोगति थावरे होई' स्थावरे पृथिव्यप्तेजोवनस्पतिचतुष्टयरूपे योगास्त्रयः औदारिक 1 औदारिकमिश्र 2 कार्मण 3 रूपाः इति चतुर्दशं द्वारं 14 // 19 //
Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116