Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 100
________________ [73] ___ दण्डक वृ. ' अथ तृतीयद्वारं संहननरूपमाह-- थावरसुरनेरइया असंघयणा य विगलछेवट्ठा / संघयणछग्गं गब्भयनतिरिएसु मुणेयव्वं // 11 // स्थावराः-पृथिव्यप्तेजोवायुवनस्पतिरूपाः पञ्च, सुराः-देवाः, नैरयिकाः-नारकाचैते एकोनविंशतिदण्डकाः असंहननाः संहननरहिताः / अयम्भावः-संहननमस्थिरचनारूपं भवति, एषां तु अस्थ्यभावात् न विवक्षितं कर्मग्रन्धाभिप्रायेण, परं सिद्धान्ताभिप्रायेण तु सुरनारकाः प्रथमसंहनना उक्ताः, तदभिप्रायं त एव विदन्तीति / तथाद्वि-त्रि-चतुरिन्द्रियाः सेवार्ताः सेवार्तनामषष्ठसंहननवन्तः, कथम् ? अस्थिरचनायाः सद्भावात् / तथा गर्भजनरतिरश्चोः संहननषट्कं ज्ञातव्यं, कोऽर्थः ? षडपि संहननानि भवन्तीत्यर्थः, इति तृतीयं द्वारं संपूर्णम् 3 // 11 // अथ संज्ञाद्वारं चतुर्थमाह मवेसि चउ दह वा सण्णा / सर्वेषां चतुर्विंशतिदण्डकानां चतस्र आहारसंज्ञा 1 भयसंज्ञा 2 मैथुनसंज्ञा 3 परिग्रहसंज्ञा 4 रूपा भवन्ति / अथवा इति पक्षान्तरे क्रोध 1 मान 2 माया 3 लोभ 4 लोक 5 ओध 6 संज्ञाषट्कमीलने दश भवन्ति इति चतुर्थ द्वारम् 4 / अथ पञ्चमं संस्थानद्वारमाह सम्वे सुराय चउरंसा / नरतिरिय उ संठाणा हुंडा विगलिदिनेरइया // 12 //

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116