Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ श्रीसमयसुन्दग्गणिविरचितवृत्तिसहितं श्रोगजसारमुनिविरचितं दण्डकप्रकरणम् शान्ति शान्तिकरं नत्वा गणिः समयसुन्दरः / दण्डकस्तोत्रसूत्रस्य वृत्ति वक्ति प्रयत्नतः // नमिउं चवीसजिणे तस्सुत्तवियारलेसदेसणओ। दंडगपएहि तेच्चिय थोसामि सुणेह भो भव्वा // 1 // भो भव्या ! यूयं श्रृणुत, अहमिति शेषः / तानेव जिनान् स्तोष्यामि, कैः कृत्वा ? दण्डकंपदैः “नेरइआ असुराई” इत्यादिभिः श्रीभगवतीसूत्रोक्तैः जीवस्थानः, कुतः केन प्रकारेण स्तोष्यामीत्याह 'तस्सुत्तवियारलेसदेसणउ' अयमर्थ:-तेषां तीर्थंकराणां सूत्रमागमः सिद्धान्तः इति यावत् तत्सूत्रं तस्य विचारस्तस्य लेशः एकदेश स्तस्य दर्शनं प्रकाशनं, तस्मात् ; किं कृत्वा ? चतुर्विंशतिजिनान् नत्वा प्रणम्य इति गाथासंक्षेपार्थः // 1 //
Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116