Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 95
________________ - प्रकरणत्रयी [68] इन्द्रियाणि पश्च तानीमानि-स्पर्शन 1 रसन 2 घ्राण 3 चक्षुः 4. श्रोत्र 5 रूपाणि 8 // समुद्घातौ द्वौ-एक अजीवविषयोऽचित्तमहास्कन्धरूपः, तेनाचित्तमहास्कन्धरूपेण नात्र प्रयोजनं 1 / द्वितीयो जीवविषयः स च सप्तधा तथाहि-वेदनासमुद्घातः 1 कषायसमुद्घातः 2 मरणसमुद्घातः 3 वैक्रियसमुद्घातः 4 आहारकसमुद्घातः 5 तैजससमुद्घातः 6 केवलिसमुद्घातश्च 7 / तत्र समुद्घातलक्षणं किमित्युच्यते, समवहननात् आत्मप्रदेशानां विकरणं समुद्घातः 9 / // 3 // द्रष्टिस्त्रेधा-सम्यग्द्रष्टिः 1 मिथ्याद्रष्टिः 2 मिश्रद्रष्टिश्च 3 10 / दर्शनं चतुर्धा-तथाहि-चक्षुर्दर्शनं 1 अचक्षुर्दर्शनं 2 अवधिदर्शनं '3 केवलदर्शनं 4 च 11 / / ज्ञानं पञ्चधा तथाहि-मतिज्ञानं 1 श्रुतज्ञानं 2. अवधिज्ञानं 3 मनःपर्यवज्ञानं 4 केवलज्ञानं 5 च / अत्र ज्ञानसहचारित्वान् अज्ञानत्रिकं अनुक्तमपि ग्राह्य, तत्त्रयं यथा मत्यज्ञानं 1 श्रुताज्ञानं 2 विभंगज्ञानं 3 च 13 / __ योगाः पञ्चदश तेचेमे-औदारिकयोगः 1 औदारिकमिश्रयोगः 2 वैक्रिययोगः 3 वैक्रियमिश्रयोगः 4 आहारकयोगः 5 आहारकमिश्रयोगः 6 तैजसकामणयोगः 7 एते शरीरसंबन्धिनो योगाः सप्त, पुनश्चत्वारो मनोयोगास्तथाहि-सत्यमनोयोगः 1 असत्यमनोयोगः 2 सत्यामृषामनोयोगः 3 असत्यामृषामनोयोगश्च 4 / एवं चत्वारो वचनयोगास्तथाहि-सत्यवचनयोगः 1 असत्यवचनयोगः 2 सत्यामृषावचनयोगः 3 असत्यामृषावचनयोगश्च 4 / प्रकारत्रयमीलने पञ्चदश योगा भवन्ति 14 / उपयोगो द्वेधा-साकारोपयोगः 1 अनाकारोपयोगश्च 2 / तत्र साकारोपयोगोऽष्टधा-पञ्चज्ञानानि ५त्रीण्यज्ञानानि ३।अनाकारोपयोग

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116