Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 96
________________ [69] दण्डक वृ. श्चतुर्धा-चक्षुर्दर्शनं 1 अचक्षुर्दर्शनं 2 अवधिदर्शनं 3 केवलदर्शनं 4 च सर्वमीलने द्वादश भेदा भवन्ति // 15 // 'उववाउत्ति'-एकसमये सामकालं कियन्त उत्पद्यन्ते ? 16 / . 'चवणत्ति'-एकसमये समकालं कियन्तः च्यवन्ते ? 17 / 'ठिइत्ति' स्थितिः आयुः, कस्य कियद्भवतीति तदायुद्वैधा-जघन्यं 1 उत्कृष्टं 2 च 18 / 'पज्जत्ति'-पर्याप्तयो जीवशक्तिरूपाः कस्य कियत्यः ताश्चेमाःआहारपर्याप्तिः 1 शरीरपर्याप्तिः 2 इन्द्रियपर्याप्तिः 3 श्वासोच्छ्वासपर्याप्तिः 4 भाषापर्याप्तिः 5 मनःपर्याप्तिः 6 19 / 'किमाहारेत्ति'-के जीवाः कतिभ्यो दिग्भ्यः आगतमाहारं गृह्णन्ति 20 / ___ 'संणीत्ति'-संज्ञा-विशिष्टसंज्ञाः ताश्च तिस्रः, तथाहि-दीर्घकालिकी 1 हेतुवादोपदेशिकी 2 दृष्टिवादोपदेशिकी 3 च / एतासां चार्थोऽयं त्रिकालविषयेऽर्थ जानाति सा दीर्घकालिकी संज्ञा, सा च समनस्कानामेव भवति 1 यश्च स्वदेहपालनाहेतोः इष्टवस्तुषु प्रवर्तते अहिताच्च निवर्तते वर्तमानकालविषये च यस्य चिन्तनं तस्य हेतुवादोपदेशिकी संज्ञा 2 / अथ यश्च सम्यग्द्रष्टिः क्षायोपशमिकज्ञानयुक्तो यथाशक्ति रागादिनिग्रहपरस्तस्य द्रष्टिवादोपदेशिकी संज्ञा 3 21 / 'गइ' इति गतिर्भवान्तरे गमनम् 22 / 'आगइ' इति आगतिः परभवादागमनम् 23 / 'वेए' इति वेदः स च त्रेधा तथाहि-पुरुषवेदः 1 स्त्रीवेदः 2 नपुंसकवेदश्च 3 24 / इति वक्तव्यानि // 4 // .. . . . .


Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116