Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 97
________________ [70] प्रकरणत्रयो अथ यस्मिन् दण्ड्के यावन्त्येतानि वक्तव्यानि भवन्ति तानि प्रतिदण्डकं प्रतिपादयन्नाहचउगब्भतिरियवाउसु मणुयाणं पंच सेसतिसरीरा // 4 // चत्वारि शरीराणि-औदारिक 1 वैक्रिय 2 तैजस 3 कार्मण 4 रूपाणि गर्भजतिर्यग्वाय्वोभवन्ति, आहारकं न भवति तस्य चतुर्दशपूर्वधरस्यैवकरणात् / अत्र 'दोवयणे बहुवयणं' इति प्राकृतसूत्रात् तिर्यग्वायुषु इति द्विवचनेऽपि बहुवचनं न दोषाय, ‘मणुआणं पंच' इति मनुष्याणां पंचापि शरीराणि भवन्ति / शेषा एकविंशतिदण्डकाः त्रिशरीराः नारकाः त्रयोदशसंख्या देवाश्च तेषां वैक्रिय 1 तैजस 2 कार्मण 3 रूपं शरीरत्रयं भवत्यन्येषां पृथिव्यप्तेजोवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियदण्डकानां औदारिक 1. तैजस 2 कार्मण 3 रूपं शरीरत्रयं भवति इति प्रथमं द्वारम् 1 / ... अथावगाहनामानरूपं द्वितीयं द्वारमाहथावरचउगे दुहओ अंगुलअसंखभागतणू // 5 // स्थावरचतुष्के पृथिव्यप्तेजोवायुरूपे दण्ड कचतुष्के दुहओत्ति द्वाभ्यां प्रकाराभ्यां जघन्योत्कृष्टरूपाभ्यां कृत्वा अंगुलस्यासंख्यभागा तनुः शरीरमानमित्यर्थः / इह यद्यपि एतेषां चतुर्णा बादरत्वात् वाताग्निजलपृथिवीरूपाणां परस्परमंगुलस्यासंख्यगुणवृद्धिरस्ति तथाप्यंगुलासंख्यभागमानं न व्यभिचरति // 5 // सव्वेसिपि जहन्ना साहाविय अंगुलस्ससंखंसो / शेषाणां विंशतिदंडकानां स्वाभाविकस्य मौलस्य शरीरस्य उत्पत्तिसमये अंगुलस्यासंख्यातो भागो जघन्याऽवगाहना। .

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116