Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 65
________________ नवतत्व . [38] कर्मविकाररूपं, शरीराणां चेदं कारणभूतं 12 तैजसकार्मणशरीरे सर्वसंसारिजीवानामनादिकालसंबद्ध भवतः, मोक्षगमनं विना तयोः कदाऽपि वियोगो न स्यादादित्रितनूनामौदारिक 13 वैक्रिय 14 आहारक 15 शरीराणामुपांगान्यादिमं संहननं वज्रऋषभनाराचरूपं 16 आदिम संस्थानं समचतुरस्ररूपम् 17 // 15 // वर्णचतुष्कं प्रस्तावात् शुभं ज्ञेयं ततः शुभं रूपं 1 शुभो रसः 2 शुभो गन्धः३ शुभः स्पर्शः 4 एवं 21 येन कर्मणा जीवानां शरीरं न गुरु न लघु स्यात् तदगुरुलघु 22 [यदुदयात् परेषां दुष्प्रघर्षः महौजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा महाभूपसभामपि गतः सभ्यानामपि क्षोभमुत्पादयति प्रतिपक्षप्रतिभाप्रतिघातं च करोति तत् पराघातनाम 23 यदुदयादुच्छ्वसनलब्धिरात्मनो भवति तदुच्छ्वास नाम 241] येन कर्मणा जीवशरीरं स्वयमनुष्णमप्युष्णप्रकाशसंयुक्तं स्यात् यथा सूर्यमण्डले पृथिवीकायजीवानां, इदं सूर्यम-डले एव नान्यत्र तदातपनामकर्म 25 येन कर्मणाऽनुष्णप्रकाशसंयुक्तं स्याद्यथा चन्द्रमण्डले तदुद्योतनामकर्म 26 शुभखगतिः-शुभा प्रशस्ता खे-आकाशे गतिः शुभखगतिहसवृषभगजादीनामिव 27 येन कर्मणा जीवशरीरे अंगप्रत्यंगानां नियतव्यवस्थापनं क्रियते यथा सूत्रधारेण पुत्तलिकादौ तन्निर्माणनामकर्म 28 त्रसदशकमग्रे वक्ष्यते 38 मुराणां 39 नराणां 40 तीरश्चां चायुः 41 चतुस्त्रिंशदतिशययुक्तं केवल्यवस्थायामुदयभूतं त्रिभुवनपूज्यं तीर्थकरनाम 42 // 16 // . सनामकर्म-द्वीन्द्रियादीनां 1 बादरनामकर्म येन जीवाः स्थूलाश्वग्राह्या भवन्ति 2 येन जीवाः स्वस्वपर्याप्तियुक्ता भवन्ति तत्पर्याप्तिनामकर्म ? प्रत्येकनामकर्म-येनैकस्मिन्शरीरैकजीवः 4 येन जीवानां 1 त्रुटितपाठोऽयं कर्मविपाक(प्रथमकर्मग्रन्थगाथा ४३)स्वोपज्ञवृत्तितः पूरितः /

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116