Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ - प्रकरणत्रयी [ 50] आर्जवं-ऋजोर्भाव आर्जवं मायाजयः 3 मुक्तिः-निर्ममत्वं लोभजयः 4 तपो बाहयमाभ्यन्तरं चेति द्वादशधा 5 संयमः प्राणातिपातादिविरमणरूपः 6 सद्भयो जीवेभ्यो हितं पथ्यं सत्यं सर्वजीवेषु सुखकारिवचनं 7 शौचं-अदत्तादानपरिहारः 8 न विद्यते किश्चनस्य भाव आकिञ्चन्यं सर्वपरिग्रहत्यागः 9 औदारिकवैक्रियसम्बन्धिमैथुनपरित्यागो ब्रह्मचर्य 10 इति क्षान्त्यादिको दशप्रकारो यतिधर्मः 40 // 28 // .. अथ भावनाया द्वादशभेदानाहपढममणिचमसरणं संसारो एगया य अन्नत्तं / असुइत्तं आसव संवरो य तह निज्जरा नवमी // 29 // लोगसहावो बोहीदुल्लहा धम्मस्सं साहगा अरिहा / एआआ भावणाओं भावयव्वा पयत्तेणं // 30 // . नामानि यथा-अनित्यभावना 1 अशरणभावना 2 संसारभावना 3 अनित्यभावना 4 एकत्वभावना 5 अशौचभावना 6 आश्रवभावना 7 संवरभावना 8 निर्जराभावना 9 लोकस्वभावभावना 10 बोधिभावना 11 धर्मसाधकभावना 12 अथैतासां भावनानां स्वरूपं कथ्यते सर्वेऽपि पदार्था अनित्या इति चिन्तनं प्रथमाऽनित्यभावना 1 देहिनां मरणादिसमये संसारे शरणं किमपि नास्तीति चिन्तनमशरणभावना 2 चतुरशीतिलक्षयोनिजीवाः कर्मणा सर्वत्र भ्रमन्तीति चिन्तनं संसारभावना 3 एकाक्येव जीव आगच्छत्येकाक्येव च याति परभवमेकाक्येव आणि शुभान्यशुभानि चोपार्जयति भुङ्क्ते चेति चिन्तनमेकत्वभावना 4 जीवानां देहोऽपि पृथग्भूतो वर्तते ततः पुत्रकलनधनादि पदार्था विशेषतः पृथग्भूतास्ततः परमार्थवृत्त्या नान्यः कोऽपि कस्यापि सम्बन्धी वर्तते इति चिन्तनमन्यत्वभावना 5 देहस्य सप्तधातुमयस्य नवश्रोतांसि नारीजना
Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116