Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 79
________________ - प्रकरणत्रयी [52] सामायिकं 1 छेदोपस्थापनीयं 2 परिहारविशुद्धिकं 3 सूक्ष्मसंपरायं 4 यथाख्यातं 5 च, तेषां स्वरूपं चेद-सर्वसावधव्यापारपरित्यागरूपं निरवद्यव्यापारासेवनरूपं च सामायिकं 1 प्राणातिपातविरमणादिपञ्चमहाव्रतरूपं छेदोपस्थापनीयं 2 नव साधवो गच्छाद् बहिनिर्गत्याष्टादशमासान् यावत् सिद्धान्तोक्तरीत्या तपः कुर्वन्ति तत्परिहारविशुद्धिकं 3 सूक्ष्मसंपरायनाम्नि दशमे गुणस्थानके वर्तमानानां साधूनां यच्चारित्रं भवति तत्सूक्ष्मसंपरायं 4 // 31 // . ____ सर्वेषु कषायेषु क्षयं प्राप्तेषु साधूनां यच्चारित्रं तत् , यच्चारित्रं चरित्वाऽऽसेव्य सुविहिताः साधवो बहुविधा अजरामर मोक्षं प्राप्ताः 5-57 इति पश्च समितयः तिस्रो गुप्तयो द्वाविंशतिः परीषहा दशविधो यतिधर्मः द्वादश भावनाः पञ्च चारित्राणि सर्वमीलने सप्तपश्चाशद्भेदाः संवरतत्वस्य जाता इति संवरतत्वं षष्ठम् 6 // 32 // ' अथ निर्जरातत्वं सप्तमं व्याख्यानयतिबारसविहं तवो निज्जराय बंधो चउविगप्पो अ / पयइठिइअणुभागो पएसमेएहिं नायव्वो / / 33 // द्वादशविधतपो निर्जरातत्वमुच्यते // 33 // [बन्धतत्वटीका निर्जरातत्वटीकानन्तरं लिखिता] तस्य तपसो द्वादश भेदानाहअणसणमूणोदरिया वित्तिसंखेवणं रसचाओ। कायकिलेसो संलीणया य बन्झो तवो होइ // 34 // पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गो वि य अन्भिंतरओ तवो होई // 35 //

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116