Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 85
________________ प्रकरणत्रयी [58] सागरोपमस्थितिप्रमाणस्य स्थितिद्वयं करोति तत्र प्रथमा स्थितिरान्तर्मुहुर्तिकी द्वितीया शेषास्थितिस्तदूना, प्रथमस्थितौ प्रतिसमयं मिथ्यात्वपु. द्गलाननुभवन् क्षीणायां सत्यामन्तरकरणस्याघसमयेनैवीपशमिकं सम्यक्त्वं लभते तत्सम्यक्त्वमपौद्गलिकमन्तर्मुहूर्त कालं यावद्भवति 1 / ... तथा या द्वितीया कर्मस्थितिमिथ्यात्वस्य वर्तते तस्याः पुञ्जत्रयं करोति जीवः शुद्धं 1 अर्धविशुद्धं 2 अशुद्धं 3 च, यथा कोद्रवाणां गोमयपानी यादिभिरुत्तारितमदनानां शुद्धः पुञ्जः 1 अर्घोत्तारितानामधशुद्धः पुञ्जः 2 अनुत्तारितमदनानामशुद्धः पुंजः 3 मिथ्यात्वदलिकस्यापि क्षपितमिथ्यात्वानुभावस्य यः पुञ्जः स शुद्धः क्षायोपशमिकरुपः कथ्यते, योऽर्धशुद्धः पुञ्जः स मिश्रः कथ्यते, योऽशुद्धपुञ्जस्तन्मिथ्यात्वं कथ्यते, तत्रौपशमिकसम्यक्त्वकालस्य जघन्यत एकसमये शेषे उत्कृष्टतः षडावलिकाशेषेऽनन्तानुबन्ध्युदयो भवति येन कृत्वोपशमसम्यक्त्वं कलुषीभवति तदा सम्यक्त्ववमनकाले सास्वादनं भवति 2 / / ___ पूर्वोक्तपुञ्जत्रयमध्ये यदा शुद्धः पुञ्जोंदयस्तदा क्षायोपशमिकसम्यक्त्वं भवति 3 / पुञ्जत्रयक्षपणकाले-क्षपणसमये वेदकसम्यक्त्वं भवति शुद्धसम्यक्त्वाणुवेदनाचरमसमये 4 / __क्रोध-मान-माया-लोभानामनन्तानुबन्धिनां चतुर्णा क्षये मिथ्यास्वमिश्रपौद्गलिकसम्यक्त्वानां क्षये क्षायिकं भवति तदप्यपौद्गलिकं 5 / तत्र सम्यक्त्वानां पञ्चानां मध्ये क्षायिकसम्यक्त्वे सति मोक्षो भवति न शेषसम्यक्त्वचतुष्टये 7 / अनाहारकमार्गणायां-तत्रानाहारकस्य जीवस्य मोक्षो भवतिनाऽऽहारकस्य 8 /

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116