Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ प्रकरणत्रयी [62] अन्तर्मुहूर्तमात्रमपि यैः सम्यक्त्वं स्पृष्टं भवति तेषां संसारोऽर्ध-. पुदगुलपरावों जीवाभिगमादौ देशोनः कथितस्ततो देशोनो ज्ञातव्यः, सम्यक्त्वप्राप्तेरनन्ताशातनाबहुलानामपि महाक्रूरकर्मणामपि जीवानां नाधिकः संसारः स्यात् // 47 // पुद्गलपरावर्तः कियत्कालेन भवतीत्याह-- .. उस्सप्पिणी अणंता पुग्गलपरिअट्टओ मुणेअव्वो। तेणंतातीअद्धा अणागयद्धा अणंतगुणा / 48 // अनंता उत्सर्पिण्यः पुद्गलपरावर्तः ज्ञातव्यस्तेऽनंता अतीताद्धागतकालः, अनागतकाल:-अनागताद्धा तु गतकालादनंतगुणः निरन्तरं गमनत्वेऽप्यक्षुण्णत्वात् // 48 // अथ सिद्धानां पञ्चदशभेदान प्रक्षेपगाथयाऽऽह-- जिणअजिणतित्थतित्थागिहिअन्नसलिंगथीनरनपुसा / पत्तेयसयंबुद्धाबुद्धबोहियइक्कणिकाय // 49 / / जिनाः तीर्थकरपदवीं प्राप्य सिद्धा 1 अजिना ये तां पदवीं विना सिद्धा 2 ये तीर्थे प्रवर्तिते सिद्धास्ते तीर्थसिद्धाः 3 ये तीर्थेऽप्रवर्तिते सिद्धास्तेऽतीर्थसिद्धा मरुदेव्यादिवत् 4 ये गृहि. वेषेण सिद्धास्ते गृहिसिद्धा मरुदेव्यादिवत् 5 अन्यलिंगिनस्तापसादयः 6 ये स्वलिंगेन साधुवेषेण सिद्धाः 7 एवं स्त्रीवेद 8 पुरुषवेद 9 नपुंसकवेदैः सिद्धाः 10 प्रतीत्य किश्चिद् वृषभादिकं सिद्धाः प्रत्येकसिद्धाः 11 स्वयंबुद्धास्तीर्थकराः 12 बुद्धबोधिता गुरुप्रतिबोधिताः 13 एकः स्मिन् समये एकः सिद्धस्ते एकसिद्धाः 14 एकस्मिन् समये येऽनेकोsटोत्तरशतपर्यन्ताः सिद्धास्तेऽनेकसिद्धाः 15 // 49 //
Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116