Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ [59] नवतत्व वृ. ज्ञानमार्गणायां-केवलज्ञाने सति मोक्षो भवति न शेषे मतिज्ञानश्रुतज्ञानाऽवधिज्ञान-मन:पर्यायज्ञानचतुष्टये 9 / / ___दर्शनमार्गणायां-तत्र केवलदर्शने मोक्षो भवति न चक्षुर्दर्शन-अचक्षुर्दर्शन-अवधिदर्शनत्रये सति 10 / इति मोक्षतत्वस्य नवभेदा वर्तन्ते तेषां मध्ये प्रथमः सत्पदप्ररूपणारूपो भेदो व्याख्यातः 1 // 40 // अथ द्रव्यप्रमाण-क्षेत्रद्वारद्वयं गाथयाऽऽह-- दव्वपमाणे सिद्धाणं जीवदव्वाणि हुंति गंताणि / लोगस्स असंखिज्जे भागे इकोय सव्वेवि // 41 // द्रव्यप्रमाणद्वारे चिन्त्यमाने सिद्धानां जीवद्रव्याण्यनन्तानि सन्तीति द्रव्यद्वारं समाप्तं 2 / क्षेत्रद्वारे चिन्त्यमाने लोकाकाशस्याऽसंख्येयतमे भागे एकः सिद्धो वर्तते सर्व वा सिद्धा लोकाकाशस्यासंख्येयतमे भागे वर्तन्ते परमेकसिद्धव्याप्तक्षेत्रापेक्षया सर्वसिद्धव्याप्तक्षेत्रमधिकप्रमाणं ज्ञेयं, क्षेत्रद्वारं समाप्तं 3 // 41 // अथ स्पर्शना-काल-अन्तररूपं भेदत्रयं गाथयाऽऽह-- फुसणा अहिआ कालो इगसिद्ध पडुच्च साइओणंतो। पडिवायाभावाओ सिद्धाणं अंतरं नत्थि // 42 // - सिद्धानां स्पर्शना क्षेत्रादधिका भवति यथैकस्मिन्नाकाशप्रदेशे स्थितस्य परमाणोः सप्ताकाशप्रदेशस्पर्शना भवत्येवं सिद्धानामपि स्पर्शनाऽधिका भवतीति स्पर्शनाद्वारं 4 / कालद्वारमाह-एकं सिद्ध नामग्राहं प्रतीत्य कालः सादि-सहितः,
Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116