Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ प्रकरणत्रयो [54] * उच्यते-मोक्षप्राप्ताविदमतरंगकारणं ततोऽधिकमिति निर्जरातत्वं सप्तमं 7 // 35 // अथाष्टमं बन्धतत्वं-बन्धः-कर्मभिः सह जीवानां संश्लेषो, यथाक्षीरनीरयोरग्न्ययापिण्डयोर्वा, स बन्धश्चतुर्विकल्पः-प्रकृति 1 स्थिति 2 अनुभाग 3 प्रदेश 4 भेदैर्ज्ञातव्यः / अथैतानेव चतुरो भेदान् प्रक्षेपगाथयाऽऽह-- पयइ सहावो वुत्तो ठिई कालावहारणं / अणुभागो रसो णेओ पएसो दलसंचओ // 36 // प्रकृतिः-स्वभावः परिणामः 1 स्थितिबन्धः-कालपरिमाणं 2 अनुभागोरसः 3 प्रदेशबन्धः-पुद्गलदलसंञ्चयः 4 ते चत्वारोऽपि बन्ध. भेदा मोदकदृष्टान्तेन ज्ञेयाः / . यथा-कश्चिन्मोदको बहुविधद्रव्यसंयोगनिष्पन्नो वातं पित्तं श्लेष्माणं च येन स्वरूपेण हन्ति स स्वभावः कथ्यते 1 / तथा स एव मोदकः पक्षं मासं द्विमासं त्रिमासं चतुर्मासादि यावत्तेनैव रूपेण तिष्ठति सा स्थितिः कथ्यते 2 / यथा पुनः स एव मोदकः कश्चित्कटुभवति कश्चिनीवो भवति स रसो ज्ञेयः 3 / यथा पुनः स एव मोदकः कश्चिदल्पपरिमाण निष्पन्नः कश्चित् पुनर्बहुदलनिष्पन्नः कश्चिद्बहुतरदलनिष्पन्नः एवं मोदकेषु यद्दलपरिमाणं स्यात् स प्रदेशबन्धः 4 / एवं कर्मणां बन्धोऽपि चतुष्प्रकारो ज्ञेयस्तथाहि-कानिचित् ज्ञानावरणीयादीनि कर्माणि ज्ञानं दर्शनं चारित्रं वा घ्नन्ति येन स्वभावेन स प्रकृतिबन्ध उच्यते 1 / तान्येव कर्माणि कानिचिज्जघन्यतोऽन्तर्मुहूर्तस्थितिकानि भवन्ति कानिचित्पुनः सप्ततिकोटीकोटीसागरोपमस्थितिकानि भवन्त्येव यावन्तं कालं बद्धानि कर्माणि तिष्ठन्ति स स्थितिबन्धः कथ्यते
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f2a231bf9eb8ee3c7f0f77271b7778b8c7c2113e5d4b16d758914059b42e222a.jpg)
Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116