Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ [53] नवतत्व वृ. इदं बाह्य तपो भवति, तस्य षड्भेदास्तथाहि- अनशनं 1 ऊनोदरता 2 वृत्तिसंक्षेपः 3 रसत्यागः 4 कायक्लेशः 5 संलीनता च 6 तेषामर्थों यथा-अनशनमाहारत्यागरूपं तच्च द्वेधा-इत्वरं 1 यावत्कथिकं च 2 तत्वरं-चतुर्थषष्ठाष्टमादि, यावत्कथिकं च प्रान्तावस्थायामनशनग्रहणरूपं 1 / ऊनोदरता-एकद्वित्रिचतुरादिकवलादिहान्या ज्ञेयाः२ / वृत्तिसंक्षेपःद्रव्य-क्षेत्र-काल-भावविषयाभिग्रहेणानेकधारूपो यथा-श्रीमहावीरस्य चतुर्विधाभिग्रहश्चंदनवालया पूरितः 3 / रसत्यागो-विकृतित्या. गरूपः 4 / कायक्लेशो-लोचयोगासनादिकष्टसहनं 5 / संलीनताचतुर्विधा-इन्द्रिय 1 कषाय 2 योग 3 निवारणेन स्व्यादिवर्जितस्योपाश्रयस्य निवसनेन 4 च 6 / एवं बाह्यं तपः लोकप्रसिद्ध षड्विधं ज्ञेयं // 34 // अथाभ्यन्तरतपसः पड्भेदानाह-प्रायश्चित्तं 1 विनयः 2 वैयावृत्त्यं 3 स्वाध्यायः 4 ध्यानं 5 उत्सर्गनामकं 6 च / तेषामर्थों यथा-तत्र प्रायश्चित्तं तद्यत् यथा स्वकीयानि पातकानि लग्नानि भवन्ति तथैव गुरूणामग्रे मनःशुद्धयाऽऽलोच्यते गुरुदत्तं तपश्च समाचर्यते 1 / विनयः सप्तधा-ज्ञान 1 दर्शन 2 चारित्र 3 मनो 4 वचन 5 काय 6 लोकीपचार 7 भेदैज्ञेयः 2 / वैयावृत्त्यं-आचार्योपाध्यायतपस्विशिष्यग्लानादीनामनपानादिसंपादनविश्रामणरूपं ज्ञेयं 3 / स्वाध्यायो-वाचना 1 पृच्छना 2 परावर्तना 3 अनुप्रेक्षा 4 धर्मकथारूपः 5 पञ्चभेदो ज्ञेयः 4 / ध्यान-आर्तध्यानरौद्रध्यानधर्मध्यानशुक्लध्यानरूपं तत्राऽऽर्तध्यान -रौद्रध्यानयोः परिहारो धर्मध्यान-शुक्लध्यानयोश्च स्वीकारः 5 / उत्सर्गों द्रव्य-भावभेदेन द्विधा-द्रव्योत्सर्गों गण-देहोपधि-भक्तत्यागेन चतुर्धा, भावोत्सर्गः पुनः क्रोधादिपरित्यागेन ज्ञातव्यः 6 / एवं षट्प्रकारमाभ्यन्तरं तपः 12 / नन्वाभ्यन्तरं कथमधिकम् ?
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9a448845c6400aac45f0170cb58339d7f361be5e3f3bb89e9e06fa8d88dc3294.jpg)
Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116