Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 76
________________ [49] नवतत्व वृ. न पुनरेकत्र वासे स्थेयमिति चर्यापरीषहः 9 / श्मशानशून्यागारसर्पबिलसिंहगुहादिषु कायोत्सर्गकरणेनोपसर्गाः सहनीया न पुनरयोग्या चेष्टा कार्येति नैषेधिकीपरीषहः 10 उच्चावच्चशय्यासु शीतोष्णकालादौ मनस्यु. द्वेगो न कार्य इति शय्यापरीषहः 11 / अज्ञानिलोकानां दुर्वचनश्रवणे कोपो न कार्यों दृढपहारिवदित्याक्रोशपरीषहः 12 / कोऽपि दुरात्मा साधूनां वधं करोति तथापि साधुभिस्तस्योपरि कोपो न कार्यः स्कन्धकसूरि४९९शिष्यवदिति वधपरीषहः 13 / भिक्षाकाले परगृहेषु भ्रमणे याचने दुःखं न कार्यमिति याचनापरीषहः 14 / / 26 // अन्तरायकर्मोदये निर्दोषभिक्षाला भस्याभावेऽपि चित्ते उद्वेगो न कार्यों ढंढणकुमारबत् 15 / उग्ररोगसंभवेऽप्यार्तध्यानं न कार्य सम्यक् सह्यं सनत्कुमारराजर्षिवत् 16 / संस्तारकादौ दर्भादितृणव्यापारे देहपीडायामपि दुःखं न चिन्त्यमिति तृणस्पर्शपरीपहः 17 / मलस्वेदादिकं शरीरान स्फेटनीयं किन्तु यावज्जीवं सम्यक् सहनीयं 18 // बहुलोकैः क्रियमाणेषु स्तुतिवन्दनादिषु चित्तोत्साहो न कार्य इति सत्कारपरीषहः 19 / बहुज्ञानसम्भवेप्यात्मीये चित्ते गर्यो न कार्य इति प्रज्ञापरीषहः 20 / ज्ञानावरणीय कर्मोदयात्पठतामपि पाठो नागच्छति तथाऽपि दुःखं मनसि नानेयं किन्तु कर्मविपाक एवं चिन्त्य इत्यज्ञानपरिषहः 21 / जिनशासन विषये मुक्तिदेवगुरुधर्मविषये च संदेहो न कार्य इति सम्यक्त्वपरीषहः 22 इति द्वाविंशतिपरीषहाः 30 // 27 // ___ अथ यतिधर्मस्य दशभेदानाह-- खंतिमद्दवअज्जव मुत्ती तव संजमे अ बोधवे / सचं सोअं आकिंचणं च बंभं च जइधम्मो // 28 // क्षमा-उपशमेन क्रोधजयः 1 मार्दवं मृदोर्भावो मार्दवं मानजयः 2

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116