Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ प्रकरणत्रयी . [47] __ अथ संवरतत्वं षष्ठं तस्य सप्तपश्चाशदभेदास्तानाहसमिइगुत्तिपरीसह जइधम्मो भावणा चरित्ताणि / पण ति दुवीस दस बार पंच भेएहि सगवन्ना // 25 // प्रथमपदद्वयस्य तृतीयचतुर्थपदाभ्यां सह योजना कार्या सा चैवं समितयः पञ्च, गुप्तयस्तिस्रः, परीषहाः द्वाविंशतिः,यतिधर्मों दशविधः, भावना द्वादश, चारित्राणि पञ्चैतैर्भेदैः कृत्वा सप्तपञ्चाशद्भेदाः संवरतत्वस्य भवन्ति / पञ्चसमितिनामानि यथा-ई-समितिः 1 भाषासमितिः 2 एषणासमितिः३आदानभांड निक्षेपणासमितिः४पारिष्ठापनिकासमितिः। अथैतेषां स्वरूपमाह-सं- सम्यक् जिनप्रवचनानुसारेण इतिः-गमनचेष्टा समितिः, ईर्याया गमनस्य समितिरीर्यासमितिः, मार्गे गच्छन् साधुयुगप्रमाणभूमौ दत्तदृष्टिः समस्तजीवानां रक्षां कुर्वन् ययाति सेर्या समितिः कथ्यते 1 / भाषाया निरवधवचनस्य समिति षासमितिः 2 / एषणा-भिक्षादोषविलोकनं तस्या एषणायाः समितिरेषणासमितिः, यतः साधुभिर्द्विचत्वारिंशददोषरहित आहारो गृहयते सैषणासमितिः 3 / आदानं-वस्तूनां ग्रहणं निक्षेपो-चस्तूनां स्थापनं मुश्चनं तयोरादाननिक्षेपयोः समितिः यद्वस्तूनां ग्रहणं मोचनं च प्रथमं वीक्ष्य रजोहरणादिना प्रमाय॑ विधीयते साऽऽदाननिक्षेपणासमितिः 4 / परिष्ठाप्यते सा पारिष्ठापनिका तस्याः समितिः पारिष्ठापनिकासमितिः 5 / ... गुप्तित्रयस्वरूपमिदं-१-मनोगुप्तिस्रेधा-आरौिद्रध्यानात् वधबन्धकल्पनाजालपरिहारः, २-धर्मध्यानानुबन्धिनी माध्यस्था परिणतिः ३-केवलज्ञानिनां योगनिरोधावस्थायां सकलमनोवृत्तिनिरोधश्च 6 वचनगुप्तिद्वैधा -१-भूसंज्ञादिपरिहारेण मौनाऽभिग्रहः २-वाचनापृच्छनादिषु मुखवस्त्रिकाच्छादितमुखस्य भाषमाणस्यापि वाग्नियन्त्रणं च /
Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116