Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ प्रकरणत्रयी [43] घातनामकर्म 68 अप्रशस्तं वर्णचतुष्कं-अशुभो वर्णः 1 अशुभो रसः 2 अशुभो गन्धः 3 अशुभः स्पर्शश्च 4 जाताः 72 प्रथमसंहननं विना पञ्च संहननानि प्रथमसंहननस्य पुण्यभेदे गणितत्वात्, पञ्च संस्थानानि प्रथमं संस्थानमपि पुण्यभेदे गणितमस्ति / संहनननामानीमानि-- वज्रऋषभनाराचं 1 ऋषभनाराचं 2 नाराचं 3 अर्धनाराचं 4 कीलिका 5 सेवात 6 चैतेषां लक्षणं यथा-यस्मिन् अस्थिसन्धावुभयतो मर्कटबन्धस्तस्योपरि कोलिकावनं तद् वज्रऋषभनाराचं 1 कीलिकारहितं ऋषभनाराचं 2 यत्रास्थिसन्धावुभयतो मर्कटबन्धः पट्टकी लिके न भवतः तन्नाराचं 3 यत्रैकपाधै मर्कटबन्धोऽपरपार्श्वे च कीलिका स्यात्तदर्धनाराचं 4 यत्रास्थीनि कीलिकामात्रबद्धानि स्युस्तकीलिकाख्यं 5 यत्र पुनरस्थीनि पृथकस्थितानि परस्परं संलग्नानि भवन्ति तत्सेवात नित्यं तैलाभ्यंगादिसेवया ऋतं व्याप्तं सेवार्तमिति नामार्थः 6 प्रथमं विना पश्च संहननान्यत्र ततो जाता भेदाः 77 / संस्थानानि षट् नामानि यथा-समचतुरस्त्रं 1 न्यग्रोधं 2 सादि 3 वामनकं 4 कुब्ज 5 हुंडं 6 चेत्यर्थों यथा-समचतुरस्रं - पयकासनोपविष्टजिनबिम्बमिव ज्ञेयं तत्पुण्यभेदे उक्तमिति हेतोरत्र न ग्राह्यं 1 न्यग्रोधो वटः उपरि संपूर्णावयवोऽधस्तु हीनस्ततो नाभेरुपरिलक्षणोपेतं संपूर्णमधस्तु यद्धीनं तत्संस्थानं न्यग्रोधं 2 सहाऽऽदिना वर्तते यत्तत्सादि नाभेरधो यथोक्तलक्षणसहितमुपरि तु हीनं तत्सादि संस्थानं 3 यत्र पादपाणिशीरोग्रीवादिकं प्रमाणलक्षणसहितं उरउदरादि च कुब्जं तत्कुब्जसंस्थानं 4 तद्विपरीतं वामनसंस्थानं 5 सर्वावयवैरशुभं हुंडसंस्थानं 6 साम्प्रतं प्रायो मनुष्याणां हुण्ड मेव वतते, प्रथम विना शेषपञ्चसंस्थानमीलने पूर्वोक्ता भेदा जाता द्वयशीतिः८२ // 19 / /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7f9f498fc086df3d44b3bbd02fd7b0064ead44e4aaf1fed82f2d6b80a4dc2142.jpg)
Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116