Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ [42 ] नवतत्व वृ. तत्रानंतानुबन्धिनः आजन्माऽऽवधिभाविनो नरकगतिदायिनः सम्यक्त्वघातिनः पर्वतरेखासमानाश्च 1 / अप्रत्याख्यानिका वर्षपर्यन्तभाविनस्तिर्यग्गतिदायिनो देशविरतिघातिनश्च 2 / प्रत्याख्यानिका मासचतुष्टय. मनुष्यगतिदायिनः साधुधर्मघातिनश्च 3 / सज्वलनाः पुनः पक्षावधयो देवगतिदायिनः केवलज्ञानघातिनश्च 4 / .. नवनोकषायाः ते चामी-हास्यरत्यरतिभयशोकजुगुप्सापुरुषवेदस्त्रीवेदनपुंसकवेदरूपास्तेषां स्वरूपं चेदं-येन कर्मणा सनिमित्तं निनिमित्तं वा जीवानां हास्यमायाति तद् हास्यमोहनीयं 1 येन मनोहरेषु शब्दरूपादिषु रागः स्यात् तद् रतिमोहनीयं 2: येनामनोहरेषु शब्दरूपादिषु विरागः स्यात् तदरतिमोहनीयं 3 येन जीवानां नानाविधनिमित्तैभयमुत्पद्यते तद् भयमोहनीयं 4 येनाभीष्टवियोगे दुःखं ध्रियते तच्छोकमोहनीयं 5 येन बीभत्सवस्तुदर्शने निंदा क्रियते तज्जुगुप्सामोहनीयं 6 येन स्त्रियं प्रत्यभिलाषः स्यात् स पुंवेदस्तृणदाहसमः 7 स्त्रीवेदः करीषदाहसमः 8 नपुंसकवेदो नगरदाहसमः 9 एवं षोडशकषायैः नवनोकषायैश्च कृत्वा कषायाः पञ्चविंशतिर्जाताः / पूर्वोत 35 मौलने जाताः षष्टिः 60 तथा 'तिरिअदुगं' तिर्यग्गतिः 61 तिर्यगानुपूर्वी 62 च तिर्यगायुषः पुण्यभेदे प्रतिपादितत्वात् 'मुरनरतिरिआउ' इत्यनेन, दृश्यते च राजादीनां पटहस्तितुरंगमादीनां सुखमनुभवतां शुभमायुः // 18 // यया जीवानां चतुरिन्द्रियहान्या एकेन्द्रियत्वं भवति सैकेन्द्रियजातिः 63 एवमेव द्वि-त्रि-चतुरिन्द्रियजातयो ज्ञेयाः जाताः 66 या जीवानां खरोष्ट्रादीनामिवाशुभगतिः सा कुखगतिः 67 येन कर्मणा जीव - शरीरावयवैः प्रतिजिह्वा-गलकण्ठिका-चोरदन्तादिभिरुपहन्यते तदुप
Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116