Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ [36] नवतत्व बृ. दिवसप्रमाण पक्षो जायमानो दृश्यते / जैनमतटिप्पने तु श्रावण 1 आश्विन 2 मृगशीर्ष 3 माघ 4 चैत्र 5 ज्येष्ठ 6 मासेषु कृष्णपक्षे एकैकतिथिहानिर्नासीत्........................तज्जैनटिप्पनं तु व्यवच्छिन्नं, मासाः-पक्षद्वयरूपाः, वर्षाणि-द्वादशमासरूपाणीदमपि प्रायिकं वचो यतोऽधिकमासे जाते तृतीयवर्ष त्रयोदशमासरूपं भवति, मासानां मध्येऽन्यतममासवर्धनेन यः कोऽपि वर्धते, जैनटिप्पनके तुं पोषो वाऽऽषाढो वा वर्धमानोऽभूत् , पुनर्भणितः पल्योपमरूपः कालः स कूपदृष्टान्तेन ज्ञातव्यः, पुनर्देशकोटाकोटीपल्योपमप्रमाणं सागरोपमं, दशकोटाकोटिसागरोपमप्रमाणैवोत्सर्पिणी तावत्प्रमाणैव अवसर्पिणी, एषः कालः सूर्यगतिक्रियापरिगम्यः // 12 // अथैकस्मिन्मुहूर्ते कत्यावलिका भवन्ति तदाह-- एगाकोडी सत्तसट्ठि लक्खा सत्तहुत्तरी सहस्सा य / दोयसया सोलहिया आवलिया इग मुहुत्तम्मि // 13 // ___ एका कोटी सप्तपष्टिलक्षाः सप्तसप्ततिः सहस्रा द्वे शते पोडशाधिके आवलिकानामेकस्मिन्मुहूर्ते // 13 // अथ कतिभिः श्वासोच्छ्वासैर्मुहर्तो भवति तदाह-- तिन्नि सहस्सा सत्तय सयाणि तेहुत्तरि च उसासा / एस मुहुत्तो भणिओ सव्वेहि अणंतनाणिहिं // 14 // सर्वैरनन्तज्ञानिभिरेष मुहूर्तः कालो भणितः, एषः क इत्याह-त्रीणि सहस्राण्युच्छ्वासाः सप्तशतानि त्रिसप्तततिरुच्छ्वासाः, एतावता एतैः श्वासोच्छवासैमुहूर्तों भवति 5 / इत्यजीवतत्त्वं प्ररुपितम् 2 // 14 //
Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116