Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 61
________________ [34] नवतत्व वृ. पुनः शिष्यहितार्थ व्यामोहत्रोटनार्थ च किश्चिदुच्यते-धर्मास्तिकायो लोकव्यापी तत्रापि यत्र स्कन्धस्तत्र देशविवक्षा न क्रियते, श्रीभगवतीसूत्रवृत्त्यादौ तथैव प्रतिपादितत्वादेवमधर्मास्तिकायोऽपि लोकव्याप्याकाशास्तिकायस्तु लोकालोकव्यापी, कालस्तु पञ्चचत्वारिंशल्लक्षयोजनप्रमितमनुष्यक्षेत्रे एव विवक्षितोऽस्ति, पुद्गलभेदाश्चत्वारोऽपि लोकव्यापिनः। * केनापि पृष्टं देवलोके कत्यजीवभेदाः ? तथा (दा) प्रोच्यते-दश / कथं ? धर्मास्तिकायस्याधर्मास्तिकायस्याकाशस्य च स्कन्धो न तथा कालोऽपि तत्र नैवं दशैव भेदा लभ्यन्तैवं मेरुचूलिकायामप्येवं नरकादावपि मनुष्यक्षेत्रावहिः सर्वत्र कालस्याभावात् दश भेदा एव / मनुष्यक्षेत्रे सर्वत्र सर्वस्थानपृच्छायामेकादश भेदा लभ्यन्ते, कालस्य विद्यमानत्वात् / लोकमध्ये धर्मास्तिकायदेशः अधर्मास्तिकायदेशः आकाशास्तिकायस्कन्धः एते त्रयो, न शेषा एकादश भेदा लभ्यन्ते / अलोकमध्ये त्वाकाशास्तिकायस्य स्कन्धो न, किन्तु देशप्रदेशाविति भेदद्वयमेव / ननु यद्यलोकमध्ये आकाशं वर्तते, तस्य लक्षणं 'अवगाहो आगासं' इति ततः कोऽपि देवादिः पुद्गलमलोकमध्ये क्षिपेत्तदा याति ? उच्यते-नहि, कथं ? तत्र 'चलणसहावो धम्मो' इति धर्मास्तिकायस्याभावेन पुद्गलस्यागमनेनाप्रवेशात् // 9 // अथ प्रकारान्तरेण जीवस्य पञ्चैव भेदान धर्मास्तिकायादीनां च लक्षणानि गाथाद्वयेनाहधम्माधम्मापुग्गल नह कालो पंच हुंति अजीवा। . चलणसहावो धम्मो थिरसंठाणो अहम्मो य // 10 //

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116