Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 58
________________ [31] नवतत्व वृ. उपयोगा द्वादश वर्तन्ते, पञ्चज्ञानानि त्रीण्यज्ञानानि चत्वारि चक्षुदर्शनादीनि दर्शनानि / तन्मध्ये तेष्वज्ञानमचक्षुर्दर्शनं चैतद् द्वयं तु वर्तत एव तत्रैकेन्द्रियादिषु पञ्चेन्द्रियान्तेषु सर्वेष्वपि जीवेष्वेतत्पड़करूपं लक्षणं लभ्यत एव / ___ अत्र केचित् प्रतिपादयन्ति-एतत्षकं न सर्वजीवेषु किन्तु पृथकूपृथक्जीवभेदेषु लक्षणं ज्ञानादिकं लभ्यते न ते सिद्धान्तमर्मज्ञा न ते गीतार्थगुरुचरणसेविनश्च // 5 // अथ कस्मिन् जीवे कतिपर्याप्तयः लभ्यन्ते तदाहआहारसरीरइंदियपज्जत्तीआणपाणभासमणे / चउपंचपंचछप्पय इगविगलासन्निसन्नीणं // 6 / / आहारपर्याप्तिः 1 शरीरपर्याप्तिः 2 इन्द्रियपर्याप्तिः 3 आणपाणत्ति-श्वासोच्छ्वासपर्याप्तिः 4 भाषापर्याप्तिः 5 मनःपर्याप्तिश्च 6 / ननु पर्याप्तिः किमुच्यते ? पर्याप्तिीवस्य कोऽपि शक्तिविशेषः, येनोत्पत्तिस्थानेऽन्तर्मुहूर्तमध्ये जीवः पुद्गलानाहारादितया परिणमयति / ___ अथ तृतीयपदस्य चतुर्थपदेन समं योजना कर्तव्या / कथमित्याहएकेन्द्रियेषु आहारपर्याप्तिः 1, शरीरपर्याप्तिः 2, इन्द्रियपर्याप्तिः 3, श्वासोच्छ्वासपर्याप्तिश्च 4, ताश्चतस्रः पर्याप्तयो लभ्यन्ते / विकलेषु द्वित्रिचतुरिन्द्रियेष्वसंज्ञिषु संज्ञिषु चानुक्रमेण पञ्च पञ्च षट् च ज्ञेयाः / अर्थात्ता एव पूर्वोक्ताश्चतस्रः भाषासहिताः पञ्चपर्याप्तयो :विकलेन्द्रियेषु लभ्यन्ते एवं ता .एव पर्याप्तयोऽसंज्ञिषु संमूच्छिममनुष्यादिषु लभयन्ते, कथं 1 तेषां मनोरहितत्वात् / ता एव पश्चपर्याप्तयो मन:पर्याप्तिसहिताः षडपि संज्ञिषु मनुष्यदेवतानारकतिर्यक्षु लभ्यन्ते, तेषां मनःसंज्ञासहितत्वात् /

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116