Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 57
________________ प्रकरणत्रयी [30] मनो वर्तते 3 इयरत्ति-इतरे अपरे येषां पञ्चेन्द्रियाणां मनो नास्ति ते के ? ये श्रीप्रज्ञापनासूत्रे उच्चारादिस्थानेषूत्पद्यमानाः संमूच्छिमाः पञ्चेन्द्रियाः मनुष्याः इतरे संमूच्छिमतियश्चश्च प्रोक्ताः सन्ति ते 4 एवं भेदचतुष्टयं जातमेते सबितिचऊ इति-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसहिता कार्याः, जाताः सप्तैते अपर्याप्ताश्च पर्याप्तित्रयं विना पर्याप्तिरहिताः 5-6-7 / पर्याप्ताश्च स्वस्वपर्याप्तिसहिताः द्विगुणिताश्चतुर्दशजीवभेदा भवन्ति // 4 // अथ प्रकारान्तरेण जीवलक्षणं प्रक्षेपगाथयाहनाणं च दंसणं चेव चरितं च तवो तहा। पिरिअं उबओगो य एवं जीवस्स लक्षणं // 5 // एवं जीवस्य लक्षणं भवति / एवं किं ? तत्राह-ज्ञानं 1 दर्शनं 2 च पुनः चारित्रं 3 च पुनः तपः 4 तथा वीर्य 5 च पुनरुपयोगः 6 एतानि षडपि समुदितानि न तु पृथक् पृथक् यत्र भवन्ति स जीवः / एतत्षट्करहितोऽजीव इत्यर्थः। अत्राह शिष्यः ननु पश्चेन्द्रियमनुष्यादौ केवलिपर्यन्तैतानि पडपि दृश्यन्ते परं ये सूक्ष्मैकेन्द्रिया वर्तन्ते तेषु कथं तेषां सम्भव ? उच्यते-सूक्षमेष्वेकेन्द्रियेषु ज्ञानमक्षरस्यानन्ततमभागरूपं श्रीप्रज्ञापनादौ प्रोक्तं वर्तत एवान्यथा तद्विना जीवस्याजीवत्वं स्यात् 1 / पुनर्दर्शनस्य नवभेदाः सन्ति तन्मध्येऽचक्षुर्दर्शनरूपं निद्रारूपं च दर्शनमपि वर्तत एव 2 / पुनश्च चारित्रमपि कर्मग्रन्थाभिप्रायेणाविरतिरूपं वर्तते 3 / तपोऽपि कायक्लेशादिरूपं वर्तते 4 / वीर्यमपि कायवीयं वर्तते स्वकायस्य विद्यमानत्वात् 5 /

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116