Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 55
________________ नवतत्व वृ. [28] - अथ जीवादिनवतत्त्वानां भेदान् गाथया आहचउदस चउदस बायालीसा बासीअ हुंति बायाला / सत्तावन्नं बारस चउ नव भेया कमेणेसि // 2 // एसिं इति-एतेषां जीवादिनवतत्त्वानां क्रमेण-अनुक्रमेण भेदा भवन्ति / जीवतत्वस्य चतुर्दश भेदा भवन्त्यग्रे वक्ष्यमाणाः 1 अजीवतत्वस्य चतुर्दश भेदाः 2 पुण्यतत्वस्य द्विचत्वारिंशद्भेदा भवन्ति 3 पापतत्वस्य द्वयशीतिभेदाः 4 आश्रवतत्वस्य द्विचत्वारिंशद्भेदाः 5 संवरतत्वस्य सप्तपश्चाशद्रेदाः 6 निर्जरातत्वस्य द्वादश भेदाः 7 बन्धतत्वस्य चत्वारो भेदाः 8 मोक्षतत्वस्य नव भेदाः एते सर्वेऽपि नवतत्वानां भेदा मीलिताः सन्तः द्वे शते षट्सप्ततिश्च / // 2 // अथ जीवतत्वस्याभिप्रायान्तरेण प्रक्षेपगाथयैकादिक्रमेण षड्विधजीवभेदानाह एगविहदुविहतिविहाचउब्बिहापंचछब्बिहा जीवा / चेयणतसइयरेहिं वेयगइकरणकाएहिं // 3 // प्रथमद्वितीयपदाभ्यां कृत्वा तृतीयचतुर्थपदयोर्ययोजना कर्तव्या। सा चैवं-चेअणत्ति-चेतनालक्षणो जीवः इति जीवस्य लक्षणं क्रियते तदैक एव जीवस्य भेदः / यतः सूक्ष्मनिगोदजीवेष्वपि श्रीप्रज्ञापनादिसूत्रेष्यक्षरस्यानंततमो भागः प्रतिपादितोऽस्ति 1 / / द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजीवाः त्रसाः। इयरित्तिइतरे अपरे पृथिव्यप्तेजोवायुवनस्पतिजीवा एकेन्द्रिया इति विवक्षया जीवा द्विविधाः 2 /

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116