Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 48
________________ . . [21] जीवविचार वृ. विकला द्वित्रिचतुरिन्द्रियाः संख्येयसमाः संख्यातवर्षसहस्राणि यावत् स्वकाये उत्पद्यन्ते तथा पञ्चेन्द्रियास्तियंचो मनुष्याश्च सप्ताष्टौ भवान् यावत् स्वकाये उत्पद्यन्ते / तत्र सप्तभवाः संख्येयवर्षायुषः अष्टमस्त्वसंख्यातवर्षायुष्क एव ज्ञेयः। अत्राष्टमवेत्कर्षतः पूर्वकोटिपृथक्त्वाधिकानि त्रीणि पल्योपमानि कालो बोध्यः / जघन्या तु सर्वत्रापि कायस्थितिरन्तर्मुहूर्तमेवेति / तथा नारका देवाश्च मृत्वा नोत्पद्यन्ते अतस्तेषां सा नोक्ता // 41 // अथ चतुर्थ प्राणद्वारमाहदमहा जियाण पाणा, इंदिउसासाउजोगबलरूवा / एगिदिएसु चउरो, विगलेसु छ सत्त अद्वेव // 42 // असन्निसन्निपंचिदिएसु, नवदसकमेण बोधव्वा / तेहिं सह विप्पओगा जीवाणं भण्णए मरणं // 43 // दशधा दशप्रकारा जीवानां प्राणाः। ते चेन्द्रियोच्छ्वासायुर्योगबलरूपाः स्युः। तत्रेन्द्रियाणि स्पर्शनादीनि पञ्च 5 उच्छ्वासशब्देनोच्छ्वासनिधासो गृह्य ते 6 आयुर्जीवितम् 7 योगानां मनोवाकायानां बलानि त्रीणि मनोबल 8 वचनबल 9 कायवल 10 रूपाणि एवं दश स्युः। 'इहि इंदियऊसासआउबलरूवत्ति' पाठान्तरं / तत्र बलशब्देन मनोबलादित्रयं ग्राह्यम् / अथ येषां यावन्तः प्राणास्तदाह-एकेन्द्रियेषु पञ्चसु चत्वारः प्राणाः स्पर्शनेन्द्रियोच्छ्वासायुःकायबलरूपाः स्युः। विकलेन्द्रियेषु त्रिषु षट् सप्त अष्टैव प्राणाः स्युः / तथाहि-द्वीन्द्रियेषु प्रागुक्ताश्चत्वारो रसनेन्द्रियवाग्रबलयुताः षट् स्युः / त्रीन्द्रियेषु त एव षट् घ्राणेन्द्रिययुताः सप्त स्युः / चतुरिन्द्रियेषु त एव सप्त चक्षुरिन्द्रिययुता अष्टौ प्राणाः स्युः // 42 //

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116