Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 51
________________ प्रकरणत्रयी [24] इत्युक्तं सिद्धस्वरूपम् // अथ पुनः संसारिस्वरूपमाहकाले अणाइनिहणे जोणीगहणंमि भीसणे इत्थ / भमिया भमिहंति चिरं, जीवा जिणवयणमलहंता // 49 // ___ आदिः प्रारम्भः निधनं, नाशः आदिश्च निधनं चादिनिधने ते न विद्यते यस्य स अनादिनिधनस्तस्मिन् अनाद्यनन्ते काले जिनवचनं हितोपदेशरूपं अलभमाना अप्राप्नुवन्तः जीवाः योनिभिश्चतुरशीतिलक्षसंख्याभिर्गहने अतिसंकुले अत एव भीषणे भयंकरेऽत्रास्मिन् संसारे भ्रान्ता अतीतकाले पर्यटनं कृतवन्तः पुनश्चिरं बहुकालं भ्रमिष्यन्त्यागामिकालेऽपि पर्यटिष्यन्तीत्यर्थः। वर्तमानकालस्यैकसामयिकत्वेनाल्पत्वामात्र विवक्षा कृतेति // 49 // अथ ग्रन्थकारः स्वनाम सूचयन धर्मोपदेशमाह-- ता संपइ संपत्ते मणुअत्ते दुल्लहे वि सम्मन्ते / सिरिसंतिमूरिसिढे करेह भो उज्जमं धम्मे // 50 // तत्तस्माद् भो भव्याः सम्प्रति इदानीं दशभिर्दृष्टान्तैर्दुर्लभे मनुजत्वे सम्प्राप्ते च पुनस्तत्रापि दुर्लभतरे सम्यक्त्वे जिनोक्ततत्वरुचिरूपे सम्प्राप्ते सति श्रीशान्तिसूरिशिष्टे धर्मे उद्यमं कुरुत / यूयमिति शेषः / श्रीः ज्ञानादिलक्ष्मीः शान्तिः रागाद्युपशमः ताभ्यां सूरयः पूज्याः तीर्थकरा गणधरा वा तैः शिष्टे उपदिष्टे इत्यर्थः / अनेन स्वनामापि सूचितम् / तथाहि- श्रोशान्तिसूरिरुपदिशति शिष्टे शिष्टपुरुषाचीणे धर्मे उद्यमं कुरुतेत्यन्वयः। यद्वा श्रीशान्तिसूरिणा शिष्टे भगवद्वचनानुसारेणोपदिष्टे धर्म इति वाच्यम् // 50 //

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116