Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ प्रकरणत्रयी [14] सर्वार्थसिद्ध 5 माम पश्चानुत्तरविमानवासिनश्च देवाः कल्पातीता उच्यन्ते। . एते सर्वेऽपि अहमिन्द्रत्वात् प्रागुक्तव्यवस्थाशून्या इत्यर्थः // 24 // ॥इत्युक्ताः संसारिजीवाः॥ अथ सिद्धजीवभेदानाहसिद्धा पनरसभेया, तित्थ अतित्थाइसिद्धभेएणं / एए संखेवेणं जीवविगप्पा समक्खाया // 25 // सिद्धाः सर्वकर्म निर्मुक्ता जीवाः। तीर्थकरातीर्थकरादिसिद्धभेदेन पञ्चदशभेदा ज्ञेयाः / अत्र सूत्रे प्राकृतत्वात्करपदलोपः / तत्र तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः 1 अतीर्थकराः, सामान्यकेवलिनः सन्तो ये सिद्धास्तेऽतीर्थकरसिद्धाः 2 / आदिपदात्तीर्थसिद्धा अतीर्थसिद्धादिपश्चदशभेदाः नवतत्त्वादिभ्यो ज्ञातव्याः / इत्थं संक्षेपेण एते जीवानां विकल्पाः भेदाः समाख्याताः कथिताः // 25 // अथ यवक्तव्यं तत्स्वयमेव सूत्रकृदाहएएसि जीवाणं सरीरमाऊठिईसकायमि / पाणा जोणिपमाणं जेसिं जं अस्थि तं भणिमो // 26 / / ___ एतेषां पूर्वोक्तैकेन्द्रियादीनां जीवानां शरीरमिति प्रमाणशब्दस्य सर्वत्राभिसम्बन्धात् शरीरप्रमाणं 1, आऊत्ति-जघन्योत्कृष्टायुः प्रमाणं 2, तथा एकेन्द्रियादेम॒त्वा पुनर्या तत्रैवोत्पत्तिः सा स्त्रकाये स्थितिः तत्प्रमाणं 3, तथा प्राणा दश तत्प्रमाणं 4, योनिश्चतुरशीतिलक्षास्तत्प्रमाणं 5 येषां जीवानां यदस्ति तद्वयं भणिमोत्ति भणिष्याम इत्यर्थः // 26 //

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116