Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 39
________________ प्रकरणत्रयी [12] परिवेष्टितं पश्चचत्वारिंशल्लक्षयोजनप्रमाणं क्षेत्रं नरलोक उच्यते / अत्रैव मनुष्याणां जन्ममरणसम्भवात् / तस्मान्नरलोकान्मनुष्यक्षेत्राबहिः समुद्गपक्षिणो विततपक्षिणश्चेति द्विविधाः पक्षिणो भवन्ति / तत्र समुद्गवत् संपुटीभूता मिलिताः पक्षाः सन्त्येषामित्याद्याः 1, वितता विस्तीर्णा एव पक्षाः सन्त्येषामिति द्वितीयाः 2 / एते सर्वे खचरा ज्ञेयाः / उक्ताः त्रिविधास्तियञ्चः // 22 // अथ गाथार्द्धन तेषां प्रत्येकं वैविध्यमन्यप्रकारेणाहसव्वे जलथलखयरा सम्मुछिमा गम्भया दुहा हुँति / ___ सर्वे जल वराः स्थल वराः खचरास्तियञ्चः संमृच्छिमा गर्भनाश्चेति : द्विधा भवन्ति / तत्र मातृपितृ निरपेक्षोत्पत्तयः संमूच्छिमाः / गर्भाज्जाताः गर्भना इति / एक-द्वि-त्रि-चतुरिन्द्रियास्तियश्चः संमूच्छिमा एव स्युः, पञ्चेन्द्रियाः द्विधापीति विवेकः / उक्तास्तिरश्वां भेदाः / अथ गाथार्द्धन मनुष्यभेदानाहकम्माकम्मगभूमि अंतरदीवा मणुस्साय // 23 // कर्मभूमिजाः 1 अकर्मभूमिजाः 2 अन्तर्वीपवासिनश्चेति त्रिविधा मनुष्या भवन्ति / तत्र कृषिवाणिज्यादिकर्मप्रधानभूमयः कर्मभूमयः / ताश्च सार्द्धद्वीपद्वये पञ्च भरतानि पञ्चैरावतानि पञ्च महाविदेहाश्चेति पञ्चदश भवन्ति / तासु जानाः कर्मभूमिजा मनुष्या उच्यन्ते / प्रागुक्तं कर्म यत्र नास्ति ता अर्मभूमयः त्रिंशत् / तथाहि-हैमवत 1 ऐरण्यवत 2 हरिवर्ष 3 रम्यक 4 देवकुरु 5 उत्तरकुरु 6 संज्ञाः षड् भूमयः पश्चभिर्मेरुभिर्गुणिताविशद् भवन्ति / तासु जाता अर्मभूमिजा उच्यन्ते / ते च युगलधार्मिका एव ज्ञेयाः। अथान्तरद्वीपाः षट्

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116