Book Title: Prakarantrai
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________ ____ [11] जीवविचार वृ. चउपय उरपरिसप्पा भुजपरिसप्पा य थलयरा तिविहा / गोसप्पनउलपमुहा बोधव्वा ते समासेणं // 21 // खयरा रोमयपक्खी चम्मयपक्खी य पायडा चेव / नस्लोगाओ वाहि समुग्गपक्खी विययपक्खी // 22 // च पुनः पञ्चेन्द्रियाः तिर्यञ्चस्त्रिविधाः जलचराः 1 स्थलचराः 2 खचराः 3 / तत्र तावज्जलचारिणः पश्चधा-शिशुमारा-महिषसदृशाः 1 मत्स्याः 2 कच्छपाश्च प्रसिद्धा एव तत्र मत्स्या वलयाकारं वर्जयित्वा विविधाकारवन्तो भवन्ति, 3 ग्रहास्तंतुकतया प्रसिद्धाः 4 मकरा महामतस्याः 5 / एते जलचरा उक्ताः जले चरन्तीति व्युत्पत्तेः जलं विना विपद्यन्ते इत्यर्थः // 20 // तथा स्थलचरास्त्रिविधाः चतुष्पदाः 1 उरःपरिसर्पाः 2 भुजपरिसश्चि 3 / ते समासेन संक्षेपेण गोसर्पनकुलप्रमुखा बोद्धव्याः ज्ञातव्याः / अयम्भावः-चत्वारः पादा येषां ते चतुष्पदाः गोमहिषादयः 1, उरसा परिसर्पन्ति गच्छन्ति ये ते उरःपरिसर्पाः कृष्णसर्पादयः 2 भुजाभ्यां परिसर्पन्ति ये ते भुजपरिसः नकुलगृहगोधादयः 3 एते स्थलचरा ज्ञेयाः॥२१॥ ____ तथा खे आकाशे चरन्तीति खचराः पक्षिणः / ते द्विधा-रोमजपक्षिणः 1 चर्मजपक्षिणश्च 2 / तत्र रोमभिर्जाता ये पक्षाः ते सन्त्येषामिति रोमजपक्षिणः शुकहंससारसादयः, चर्मणो जाताः पक्षाः सन्त्येषामिति चर्मजपक्षिणः वल्गुलीचमचटिकादय ते उभयेऽपि प्रकटा एव / चः पूरणे। तथा जम्बूद्वीपो धातकीखण्डः पुष्करवरद्वीपार्द्ध चेति सार्द्धद्वीपद्वयं लवणः कालोदश्चेति द्वौ समुद्रावेतत्समुदितं स्वर्णमयमानुषोत्तरगिरि
Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116