Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 121
________________ दसरहपव्वज्जानिच्छ्यविहाणं - ३१ / ६५-९२ २९३ भणिओ य दसरहेणं, वच्छ ! तुमं होहि रज्जसाहारो । अहयं पुण निस्सङ्गो, जिणवरदिक्खं पवज्जामि ॥७९॥ सो भइ नथिकज्जं, रज्जेण महं करेमि पव्वज्जं । मा तिव्वदुक्खपउरे, ताय ! भमिस्सामि संसारे ॥८०॥ अणुभवसु पुत्त ! सोक्खं, सारं माणुस्सयस्स जम्मस्स । ता पच्छिमम्मि काले, जिणवरदिक्खं करेज्जासि ॥८१॥ पुणरवि एव पत्तो, भरहो किं ताय मोहसि अकज्जे ? । न य बाल-विद्ध-तरुणं, मच्चू पडिवालई कोई ॥८२॥ हास व धम्मो, पुत्त ! महागुणकरो समक्खाओ । तम्हा गिहिधम्मरओ, होहि तुमं सयलरज्जवई ॥८३॥ जइ लहइ मुत्तिसोक्खं, पुरिसो गिहधम्मसंठिओ सन्तो । तो कीस मुञ्चसि तुमं, गेहं संसारपरिभीओ ? ॥८४॥ मोत्तूण सयणवग्गं, धण-धन्नं मायरं च पियरं च । सुह-दुक्खं वेयन्तो, एगागी हिण्डई जीवो ॥८५॥ सुणिऊण पुत्तवयणं, परितुट्ठो दसरहो भणइ एवं । साहु त्ति साहु अहियं, पडिबुद्धो भवियसद्दूलो ॥८६॥ तह वि तुमे मह वयणं, पुत्तय ! कायव्वयं अविमणेणं । निसुणेहि कहिज्जन्तं भूयत्थं सारसब्भावं ॥८७॥ सारत्थतोसिएणं, संगामे जो वरो मए दिन्नो । सो अज्ज तुज्झ पुत्तय ! जणणीए मग्गिओ इहई ॥८८॥ रज्जे ठवेहिपुत्तं भणिओ हं केगईए देवीए । तो अणुपालेहि तुमं, सयलसमत्थं इमं वसुहं ॥८९॥ पउमो वि तं कुमारं हत्थे घेत्तूण भणइ नेहेणं । निक्कण्टयमणुकूलं, करेहि रज्जं सुचिरकालं ॥९०॥ तायस्स विमलकित्ती, करेहि परिपालणं च जणणीए । भरहेण य पडिभणिओ, न य तुज्झ वइक्कम काहं ॥ ९१ ॥ अडविनईसु गिरीसु य, तत्थाऽऽवासं करेमि एगन्ते । जह मे न मुणइ कोई, कुणसु य रज्जं सुचिरकालं ॥९२॥ भणितश्च दशरथेन वत्स ! त्वं भव राज्यस्याधारः । अहं पुनर्निःसङ्गो जिनवरदिक्षां प्रव्रजामि ॥७९॥ स भणति नास्ति कार्यं राज्येन मम करोमि प्रव्रज्याम् । मा तीव्रदुःखप्रचुरे तात ! भ्रमिष्यामि संसारे ||८०| अनुभव पुत्र ! सुखं सारं मनुष्यस्य जन्मनः । ततः पश्चिमे काले जिनवरदीक्षां कुर्याः ॥८१॥ पुनरप्येवं प्रोक्तो भरतः किं तात ! मोहयत्यकार्ये ? । न च बाल-वृद्ध-तरुणं मृत्युः प्रतिपालयति कोऽपि ॥८२॥ गृहाश्रमेऽपि धर्मः पुत्र ! महागुणकरः समाख्यातः । तस्माद्गृहधर्मरतो भव त्वं सकलराज्यपतिः ॥८३॥ यदि लभते मुक्तिसुखं पुरुषो गृहधर्मसंस्थितः सन् । तदा कथं मुञ्चसि त्वं गृहं संसारपरिभीतः ? ॥८४॥ मुक्दा स्वजनवर्गं धन-धान्यं मातरं च पितरं च । सुख दुःखं वेदयन्नेकाकी हिण्डते जीवः ॥८५॥ श्रुत्वा पुत्रवचनं परितुष्ठो दशरथो भणत्येवम् । साध्विति साध्वधिकं प्रतिबुद्धो भविकशार्दुलः ||८६ ॥ तथापि त्वया मम वचनं पुत्र ! कर्त्तव्यमविमनसा । निश्रुणु कथयन्तं भूतार्थं सारसद्भावम् ॥८७॥ सारथ्यतोषितेन संग्रामे यो वरो मया दत्तः । सोऽद्य तव पुत्र ! जनन्या मार्गित इदानीम् ॥८८॥ राज्ये स्थापय पुत्रं भणितोऽहं कैकय्या देव्या । ततोऽनुपालय त्वं सकलसमस्तामिमां वसुधाम् ॥८९॥ पद्मोऽपि तं कुमारं हस्ते गृहीत्वा भणति स्नेहेन । निष्कण्टकमनुकूलं कुरु राज्यं सुचिरकालम् ॥९०॥ तातस्य विमलकीर्त्तिः कुरु परिपालनं च जनन्याः । भरतेन च प्रतिभणितो न च तव व्यतीक्रमं करिष्यामि ॥९१॥ अटवीनदीषु गिरिषु च तत्रावासं करोम्येकान्ते । यथा मे न जानाति कोऽपि कुरुष्व च राज्यं सुचिरकालम् ॥९२॥ I Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214