Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
[ ४१. जडागीपक्खिउवक्खाणं |
अह ते अइक्कमेडं, गामा-ऽऽगर-नगरमण्डिए देसे । पत्ता दण्डारण्णे, घणगिरि-तरुसंकडपवेसे ॥१॥ पेच्छन्ति तत्थ सरिया, कण्णरवा विमलसलिलपडिपुण्णा । फल-कुसुमसमिद्धेहिं, संछन्ना पायवगणेहिं ॥२॥ तत्थ उ विमलजलाए, नईए काऊण मज्जणविहाणं । भुञ्जन्ति तरुफलाई, नाणाविहसाउकलियाई ॥३॥ विविहं भण्डुवगरणं, वंस-पलासेसु कुणइ सोमित्ती । धन्नं च रणजायं, आणेइ फलाणि य बहूणि ॥४॥ अह अन्नया कयाई, साहू मज्झण्हदेसयालम्मि । तवसिरिगवत्थियङ्गा, अवइण्णा गयणमग्गाओ ॥५॥ दट्टण मुणिवरे ते, सीया साहेइ राघवस्स तओ। जंपइ इमे महाजस!, पेच्छसु समणे समियपावे ॥६॥ ते पेच्छिऊण रामो, समयं सीयाए सव्वभावेणं । पणमइ पहट्ठमणसो, तिक्खुत्तपयाहिणावत्तं ॥७॥ अह ताण देइ सीया, परमन्नं साहवाण भावेणं । आरण्णजाइयाणं, गावीणं खीरनिप्फन्नं ॥८॥ नारङ्ग-फणस-इङ्ग्य-कयली-खज्जूर-नालिएरेसु । उवसाहियं च दिन्नं, सीयाए फासुयं दाणं ॥९॥ अह तत्थ तक्खणं चिय, पारणसमयम्मि गयणमग्गाओ। पडिया य रयणवुट्ठी, गन्धोदय-कुसुमपरिमीसा ॥१०॥ घुटुं च अहो दाणं, दुन्दुहिसदो य गरुयगम्भीरो । वित्थरड़ गयणमग्गे, पूरेन्तो दिसिवहे सव्वे ॥११॥
[ ४१. जटागि पक्ष्युपाख्यानम् ।
अथ तेऽतिक्रम्य ग्रामाऽऽकरनगरमण्डिते देशे । प्राप्ता दण्डकारण्ये घनगिरि तरुसंकटप्रवेशे ॥१॥ पश्यन्ति तत्र सरितां कर्णरवां विमलसलिलप्रतिपूर्णाम् । फलकुसुमसमृद्धैः संच्छन्नां पादपगणैः ॥२॥ तत्र तु विमलजलायां नद्यां कृत्वा मज्जनविधानम् । भुञ्जते तरुफलानि नानाविधस्वादुकलितानि ॥३॥ विविधं भाण्डोपकरणं वंश पलालैः करोति सौमित्रिः । धान्यं चारण्यं जातमानयति फलानि च बहूनि ॥४॥ अथान्यदा कदाचित्साधवो मध्याह्नदेशकाले । तप:श्रीराच्छादिताङ्गा अवतीर्णा गगनमार्गात् ।।५।। दृष्ट्वा मुनिवरांस्तान्सीता कथयति राघवस्य ततः । जल्पतीमान्महायशः ! पश्य श्रमणान्समितपापान् ॥६॥ तान्दृष्टवा रामः समकं सीतायाः सर्वभावेण । प्रणमति प्रहृष्टमनास्त्रिकृत्वः प्रदक्षिणावर्तम् ॥७॥ अथ तेभ्यो ददाति सीता परमान्नं साधुभ्यो भावेन । आरण्यजातानां गवां क्षीरनिष्पन्नम् ॥८॥ नारङ्ग-पनस-इङ्गुद-कदली-खजूर-नालिकेरैः । उपसाधितं च दत्तं सीतया प्रासुकं दानम् ॥९॥ अथ तत्र तत्क्षणमेव पारणासमये गगनमार्गात् । पतिता च रत्नवृष्टि र्गन्धोदक-कुसुमपरिमिश्रा ॥१०॥ धृष्टं चाहोदानं दुन्दुभिशब्दश्च गुरुकगम्भीरः । विस्तरति गगनमार्गे पूरयन् दिग्पथः सर्वान् ॥११॥
१. सरियं कण्णरवं० पडिपुण्णं० संछन-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4f02ca981e1ea2e52737fa75ccc10c6c237735f9f2cd4fef4aad92d350474e23.jpg)
Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214