Book Title: Paumchariyam Part 02
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
दसरहपव्वज्जानिच्छ्यविहाणं - ३१/३९-६४
२९१
अह तं भणन्ति मन्ती, सामिय ! किं अज्ज कारणं जायं । धणसयलजुवइवग्गं, जेण तुमं ववसिओ मोत्तुं ? ॥५२॥ तो भइ नरवरेन्दो, पच्चक्खं तो जयं निरवसेसं । सुक्कं व तणमसारं, डज्झइ मरणग्गिणा धणियं ॥५३॥ भवियाण जं सुगिज्झं, अग्गिज्झं अभवियाण जीवाणं । तियसाण पत्थणिज्जं, सिवगमणसुहावहं धम्मं ॥५४॥
अज्ज मुणिसयासे, धम्मं सुणिऊण जायसंवेगो । संसारभवसमुद्द, इच्छामि अहं समुत्तरितुं ॥५५ ॥ अहिसिञ्चह मे पुत्तं, पढमं चिय रज्जपालणसमत्थं । पव्वज्जामि अविग्धं, जेणाहं अज्ज वीसत्थो ॥५६॥ सुणिऊण वयणमेयं, पव्वज्जानिच्छियं नरवरिन्दं । सुहडा - ऽमच्च पुरोहिय, पडिया सोयण्णवे सहसा ॥५७॥ नाऊण निच्छियमई, दिक्खाभिमुहं नराहिवं एत्तो । अन्तेउरजुवइजणो, सव्वो रुविउं समाढत्तो ॥ ५८ ॥ दट्ठूण तारिसं चिय, पियरं भरहो खणेण पडिबुद्धो । चिन्तेइ नेहबन्धो, दुच्छेज्जो जीवलोगम्मि ॥५९ ॥ तायस्स किं व कीरइ, पव्वज्जाववसियस्स पुहईए ? । पुत्तं ठवेइ रज्जे, जेणं चिय पालणट्ठाए ॥६०॥ आसन्नेण किमेत्थं, इमेण खणभङ्गुरेण देहेणं । दूरट्ठिएसु अहियं, काऽवत्था बन्धवेसु भवे ? ॥६१॥ एक्कोऽत्थ एस जीवो, दुहपायवसंकुले भवारण्णे । भमइ च्चिय मोहन्धो, पुणरवि तत्थेव तत्थेव ॥६२॥ तो सव्वकलाकुसला, भरहं नाऊण तत्थ पडिबुद्धं । सोगसमुत्थयहियया, परिचिन्तेइ केगई देवी ॥६३॥ भरतस्य राज्यं रामस्य च वनवास:
न य मे पई न पुत्तो, दोण्णि वि दिक्खाभिलासिणो जाया । चिन्तेमि तं उवायं, जेण सुयं वो नियत्तेमि ॥६४॥
अथ तं भणन्ति मन्त्रिणः स्वामिन्! किमद्य कारणं जातम् । धनसकलयुवतिवर्गं येन त्वं व्यवसितमोक्तुम् ? ॥५२॥ तदा भणति नरवरेन्द्रः प्रत्यक्षं वो जगन्निरवशेषम् । शुष्कमिव तृणमसारं दह्यते मरणाग्निनात्यन्तम् ॥५३॥ भव्यानां यत्सुग्राह्यमग्राह्यमभव्यानां जीवानाम् । त्रिदशानां प्रार्थनीयं शिवगमनसुखावहं धर्मम् ॥५४॥
मद्य मुनिसका धर्मं श्रुत्वा जातसंवेगः । संसारभवसमुद्रमिच्छाम्यहं समुत्तरितुम् ॥५५॥ अभिषिञ्चत मम पुत्रं प्रथममेव राज्यपालनसमर्थम् । प्रव्रज्याम्यविघ्नं येनाहमद्य विश्वस्तः ॥ ५६ ॥ श्रुत्वा वचनमेतत्प्रव्रज्यानिश्चितं नरवरेन्द्रम् । सुभटामात्यपुरोहिताः पतिताः शोकार्णवे सहसा ॥५७॥ ज्ञात्वा निश्चितमतिं दिक्षाभिमुखं नराधिपमितः । अन्तः पुरयुवतिजनः सर्वो रोदितुं समारब्धः ॥५८॥ दृष्ट्वा तादृशमेव पितरं भरतः क्षणेन प्रतिबुद्धः । चिन्तयति स्नेहबन्धो दुच्छेद्यो जीवलोके ॥५९॥ तातस्य किं वा क्रियते प्रव्रज्याव्यवसितस्य पृथिव्या ? । पुत्रं स्थापयति राज्ये येनैव पालनार्थे ॥६०॥ आसन्नेन किमर्थमनेन क्षणभङ्गुरेण देहेन । दुरस्थितेष्वधिकं काऽवस्था बान्धवेषु भवेत् ? ॥ ६१ ॥ एकोऽत्रैष जीवो दुःखपादपसंकुले भवारण्ये । भ्रमत्येव मोहान्धः पुनरपि तत्रैव तत्रैव ॥६२॥ तदा सर्वकलाकुशला भरतं ज्ञात्वा तत्र प्रतिबुद्धम् । शोकसमवस्तृतहृदयाः परिचिन्तयति कैकयी देवी ॥६३॥ भरतस्य राज्यं रामस्य च वनवासः -
न च मे पति र्न पुत्रो द्वावपि दिक्षाभिलाषिणौ जातौ । चिन्तयामि तदुपायं येन सुतं वा निवर्तयामि ॥६४॥ १. निययं मु० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/184a9a74ea099d8d0477db4566ca99aab65c0e7febf2c9532ea6bb4c444f6bfd.jpg)
Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214