Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 54
________________ अनिवृत्ते पुनस्तस्या एकान्तेनैव हन्ताऽधिकारे ।। तत्परतन्त्रो भवरागाद् दृढमनधिकारीति ॥१०॥ अत्र योगमार्गेऽधिकारिणोऽपुनर्बन्धकादयो जीवाः सन्ति । अत्र 'आदि'शब्दात् 5 Fol सम्यग्दृष्टिः, देशविरतः, सर्वविरतश्चेत्येते जीवा अप्यधिकारिणो ज्ञेयाः । यथा यथा प्रकृतेरधिकारो निवृत्तो भवति तथा तथा योगमार्गस्याऽधिकारित्वं । विशेषेण जीवाः प्राप्नुवन्ति । अत्र प्रकृतिशब्दात् कर्मप्रकृतिज्ञेया । यथा यथा जीवस्य FO मोह उपशान्तो भवति-क्षीणो वा भवति तथा तथा कर्मप्रकृतीनां ग्रहणस्य ताभिश्च सह द्र सम्बन्धस्य जीवगतयोग्यताऽपगच्छति । अर्थात् मोहप्राबल्यात् कर्मप्रकृतिषु विशिष्टं विचित्रं वा फलं दातुं यत्सामर्थ्यमस्ति तन्मन्दं भवति । एतादृशश्च जीवो 'निवृत्तप्रकृत्याधिकार' M) इत्युच्यते । एते निवृत्तप्रकृत्यधिकारजीवा अनेकभेदा भवन्ति । यतः प्रकृतेरधिकारस्य सर निवृत्तिभिन्नभिन्नजीवानामपेक्षया भिन्ना भिन्ना भवति । अर्थादपुनर्बन्धकजीवेषु याऽधिकारस्य व निवृत्तिर्वर्तते ततो विशिष्टा सम्यग्दृष्टिजीवेषु वर्तते, ततोऽपि विशिष्टा देशविरतजीवेषु म ततश्च सर्वविरतजीवेष्विति । यावन्नैष प्रकृतेरधिकारः सर्वथा निवृत्तो भवति तावज्जीवोऽत्र योगमार्गेऽनधिकार्येव C भवति । कर्मप्रकृतेः पारतन्त्र्याज्जीवेषु संसारं प्रति दृढोऽनुरागः प्रवर्तते । अतश्च स o सर्वथा योगमार्गस्याऽनधिकार्येवेति । निवृत्तप्रकृत्यधिकारित्वं विशदयतितप्पोग्गला तग्गहणसहावावगमओ य एयं ति । इय दट्ठव्वं इहरा तह बंधाई न जुज्जंति ॥११॥ तित्पुद्गलानां तद्ग्रहणस्वभावापगमतश्चैतदिति । 7 Lएवं द्रष्टव्यमितरथा तथा बन्धादये न युज्यन्ते ॥११॥ जगदवस्थितानां पदार्थानां भिन्नभिन्नः स्वकीयः कश्चित् स्वभावविशेषो भवति । स्वभावानुगुणमेव च कार्यमपि भवत्येव । अत्र यथा जीवस्य कश्चित् स्वभावोऽस्ति तथा पुद्गलपरमाणूनामपि स्वभावोऽस्त्येव । कर्माऽपि च परमाणुरूपमेव विद्यते । तत्र तेषु | a परमाणुषु जीवग्रहणस्वभावो वर्तते तथा जीवे तु तद्ग्राहकस्वभावोऽस्ति । अथ यदा येन के Jain Education International ४१ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138