Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 73
________________ प्रेम स सम्पादयितुमर्हति । तथा नरक - तिर्यगादिकुगतिभाजनमपि स भवति" इति । (३) मोहोद्भवे चिन्तनम् - "मोहोऽज्ञानस्वरूपोऽस्ति । सम्यग्बोधाभावे एव मोहस्योद्भवो भवति । कस्मिंश्चिदपि जीवेऽजीवे चा पदार्थे वयमस्माकं विचारानारोपयामः, तदनुरूपमेव च वस्तुनि मोहो जायते । सर्वेऽपि जीवाः स्वस्वदृष्ट्यैव पदार्थान् सम्भावयन्ति ' तदनुगुणमेव च तेषां तत्र भावो भवति । सर्वस्मिन्नपि वस्तुनि सर्वेषामपि भावः समानो न भवति । यद् मह्यं रोचते तत्परस्मै नाऽपि रोचेत । अतः पदार्थस्तु यथातथ एव विद्यते केवलमस्माकं दृष्टिकोणेन तद् रुचिकरमरुचिकरं वा सम्पद्यते । एवं च पदार्थ : सम्यगसम्यग्वा न भवति, स तूत्पाद - व्यय - ध्रौव्यस्य शाश्वतं नियममनुसरन् पुगलसमूहमात्रमेवाऽस्ति । पदार्थे सततं नवनवपर्यायाणामुत्पत्तिर्भवति, पूर्व - पूर्वतनपर्यायाणां विनाशो जायते तथा द्रव्यत्वेन सोऽवस्थितो वर्तते । पदार्थानामेतन्नैश्चयिकं सत्यं तत्त्वं वाऽस्ति । अस्य तत्त्वचिन्तनस्याऽभावे वयं पदार्थानां जायमानं भविष्यद्वा परिवर्तनं नाऽवगन्तुं शक्नुमः तथा च सति पदार्थानां वर्तमानमेव पर्यायमनुलक्ष्य तत्र सत्त्वासत्त्वस्याऽऽरोपणं कुर्मः - एषोऽस्ति मोहो नाम, एतदेव चाऽज्ञानमपि । एतत्तु वयं सर्वेऽपि नित्यमनुभवामः । अनुभवानन्तरमपि प्रवर्तनं नाम मोहोऽज्ञानं वा । अज्ञानमूलो मोहमूलो वाऽस्माकं क्लेशजातः । एवं चाऽज्ञानदशायां क्लेशमयं जीवनं यापयन्तोऽस्मिन् भवे भवान्तरे वा कटुविपाकानासादयन्तीत्यत्र नास्ति संशयः" इति । एवं यदाऽनुभवपूर्वकं तत्त्वचिन्तनमार्गमनुसृत्याऽज्ञानस्याऽऽवरणमपाक्रियते तदा मोहादस्माद् रक्षणं भवति । एवं च राग-द्वेष- मोहानधिकृत्य तद्विषय- परिणति - विपाकादीनां सम्यक्चिन्तनस्वरूपमात्मसम्प्रेक्षणं करणीयम् । एतेन च रागादिदोषाणां सम्यगवबोधो जायते, तेषां नाशे उद्यमोऽपि शक्यो भवति, तथा च मोक्षमार्गेऽपि प्रगतिः सुलभा भवति, इति । रागादिदोषाणां चिन्तनं करणीयमित्युक्तम् । अथ तत्करणे को विधि: ? तथा कृते च को लाभो जायते ? - इति विवृणोति चितेज्जाऽऽणाए दढं पइरिक्के सम्ममुवउत्तो ||६० / २ || गुरुदेवयापणामं काउं पउमासणाइठाणेण । दंसमंसगाइ काए अगणेंतो तग्गयज्झप्पो ॥ ६१ ॥ Jain Education International ६० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138