Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
14 भवति यत् पापं विना संसारो न प्रचलति । सत्यमेतद् यत् पापं विना संसारो न ।
प्रचलति किन्तु जीवनम् ? तत्तु पापं विना प्रचलत्येव । अस्माकं कर्मणः प्रयोजनं न (0 केवलमाहारः किन्त्विच्छापूर्तिरस्ति । तदेव च निन्द्यकर्मणि प्रेरयति प्रवर्तयति च । अनिन्द्यकर्मेत्येतद् जीवनधर्मोऽस्ति । आत्मिकधर्मस्य तु वार्ताऽपि दूरेऽस्ति । तत्प्राप्तेः पूर्वं जीवनधर्मस्य सिद्धिरनिवार्याऽस्ति । जीवनस्य नैतिकमूल्यानि येन न ज्ञातानि नाऽप्यात्मसात्कृतानि स कथं नामाऽऽत्मिकधर्मं प्राप्तुं स्थिरीकर्तुं सिद्धं वा कर्तुं शक्नुयात् ? जीवनतत्त्वं प्रति यस्य चित्ते आदरः प्रवर्तते तदर्थमेतदनिन्द्यपदं साधनास्वरूपमस्ति । यस्य च मनसि भौतिकतैव विलसति तदर्थं त्वेतदुन्मत्तालापस्वरूपम् । अनिन्द्यकर्मेत्ये-- तदुन्नतेर्यात्रायाः प्रथमं चरणम् । तादृशकर्मणि च परमाध्यात्मस्थितेर्बीजं निहितमस्ति, तस्यैव चाऽपरनामाऽस्ति मानवता।
अन्यायेन निन्द्यकर्मणा वा प्राप्तात् स्वादुभोजनात् न्यायेनाऽनिन्द्यकर्मणा वा प्राप्त साधुभोजनं वरम् । तदमृततुल्यं भवति, तस्योद्गारेऽपि माधुर्यमेवाऽनुभूयते । निन्द्यकर्मणा प्राप्तं भोजनं तु विषतुल्यम् । तस्योद्गारेऽतृप्ति-लोभ-कषाय-व्यसनादीनां दुर्गन्धोऽनुभूयते ।
विषयाणां लौल्यं यदा मन्दं भवति तदैवाऽनिन्द्यकर्मणि प्रवर्तनं शक्यं भवति । सन्तोष-मैत्री-स्वपरहितबुद्धयाद्यनेकगुणास्तत्र प्रवर्तनेऽनिवार्याः सन्ति । यत एतादृशो गुणवान् जनो जानात्येव यदाहारस्तु केवलं शरीरपुष्ट्यर्थं शरीरस्वास्थ्यार्थं वाऽस्ति न तु जिह्वालौल्यपोषणार्थं मनस्तुष्ट्यर्थं वा - स्यादाहारः प्राणसन्धारणार्थम् - आहारस्तु प्राणानामुपष्टम्भः - इति बोधो यदा स्पष्टो भवति तदैवाऽऽहारगतः स्थल-काल-भंक्ष्याभक्ष्यपेयापेयादिविवेको जागृतः स्यात् । प्रमाणभानमपि च तदैव शक्यम् । अन्यथा वर्तमानकालस्य वातावरणेन को नामाऽनभिज्ञोऽस्ति ? । जीवनार्थमाहारोऽस्त्युताऽऽहारार्थ जीवनमित्येतदेव न ज्ञायते ।
आत्मिकसत्त्वादपि वयं शारीरिकी शक्तिमधिकं महत्त्वपूर्णां गणयामः । एतद्दौर्बल्यमुपलक्ष्यैव पाश्चात्यैरस्माकं विचारधारा परिवर्तिता । ते यन्निर्दिशन्ति तदेव मान्यं गणयित्वा तादृशमेवाऽऽहारं वयं गृह्णीमः । किन्त्वेतामाहारपरिवर्तनस्य नीतिं पुरस्कृत्य तेऽस्माकं प्राणानां संकटं निर्मिमत एव, यतस्तेषां मनसि नाऽस्त्यस्माकं जीवनस्य किञ्चिदपि मूल्यं, किन्तु सार्द्धमेवाऽस्माकं विचारेषु स्थिताया अध्यात्मस्य पक्षपातरूपायाः
७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138