Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
किं त्वया पङ्कस्थितं पङ्कजं दृष्टं खलु ? पङ्काज्जायते इति पङ्कजमिति तस्य शब्दस्य व्युत्पत्तिरस्ति । तस्मिन् पङ्कजविषये परामर्शे कृते सति सकौतुकमाश्चर्यं भवति यत्, पङ्के जन्म, तत्रैव स्थानम्, निरन्तरं दुर्गन्धिजल- कर्दम- क्षुद्रजन्तुभिस्सहैव सङ्गतिश्च । एवं सत्यपि तत् पङ्कजं जनेषूत्तमसुरभि प्रसारयति, जनानां चित्तं प्रसादयति, तथा सर्वपुष्पजातिषु सर्वोपरितया प्रवर्तते । आ निर्धनेभ्यः चक्रवर्तिपर्यन्तं सर्वैरप्युपासमानाया लक्ष्मीदेव्यास्तदासनतया राजते । अहो ! पङ्के जनित्वाऽपि तेन पङ्कजेन कीदृशं माहात्म्यं प्राप्तम् !
यदि पङ्कजमेवं चिन्तयेद् यत्, "पङ्के मम जन्म, तत्रैव वासः, तथा कर्दमक्षुद्रजन्त्वादिभिः सहवर्त्तिभिर्यत् क्रियते आचर्यते च तदेव मयाऽपि करणीयमाचरणीयं च, यद्यहं तन्न कुर्यां तर्हि ते सहवर्त्तिनो मां निन्देयुरिति । तर्हि किं तत्पङ्कजमेतादृशीं महत्तामेतावच्च सन्मानं प्राप्तुं शक्नुयात् खलु ? अशक्यम् । किमप्येतादृशमचिन्तयित्वा तेन पङ्कजेन केवलमूर्ध्वं गन्तुमेव विशेषः प्रयत्नः कृतः । स्वकीयेन पुरुषार्थेन समीप स्थितं मलिनं वातावरणमावरणं बन्धनं दुष्टजन्तूनां संगतिं च विच्छिद्य जीवने नावीन्यं प्रकटीकृतं तेन । तथा जीवनेऽन्धकारमपास्य प्रदीप्तप्रकाशस्य प्रादुर्भावः कृतः । एवं च वातावरणे एतादृशः सुगन्धः प्रसारितो यतो दूरं वसन्तो भ्रमरा अपि तद्गन्धादाकृष्टाः पङ्कजस्य सामीप्येऽटाट्यन्ते । पङ्के स्थितौ सत्यामपि निर्लेपतया यद्वसनं तत्त्वाश्चर्यमेवास्ति । एव शास्त्रेषु महामुनेरुपमानरूपेण तस्यैव निर्लेपता वर्ण्यते । वाचकः पूज्यश्रीउमास्वातिमहाराज आह- "यद्वत् पङ्काधारमपि पङ्कजं नोपलिप्यते तेन" ।
(प्रशमरतिप्रकरणम् - १४०)
बन्धो ! अस्मान् परितो वर्तमाना स्थितिरपि पङ्कजजन्मस्थलसदृश्येवाऽस्ति । इदानीं वयमपि दुष्टवातावरणे एव वसामः । वर्तमानं सामाजिकं वातावरणं नितरां प्रदूषितं क्लेशमयं सङ्घर्षमयं चाऽस्ति । वातावरणेऽस्मिन् धर्मश्रद्धायाः सद्गुणानां च रक्षणं दुःशकमस्ति । प्रमाणिकता - सत्यनिष्ठा - सारल्यौदार्यपूर्वकं जीवने सन्मार्गे गमनं लोहचणकचर्वणवदतीव कठिनमस्ति । पूर्वं समाजे धर्मनिष्ठस्य मर्यादास्थितस्य च माहात्म्यं वर्तते स्म । तेषां वचनमादेशरूपमिव भाव्यते स्म । अद्य स्थितिर्विपरीता विद्यते, अतो धर्मनिष्ठावान्
Jain Education International
८६
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138