Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रपाल्य तौ सौधर्मकल्पे पल्योपमपञ्चकायुष्कौ देवौ सञ्जातौ । तत्र निरन्तरं सौख्यमुपभुज्याऽऽयुःक्षये च च्युत्वा भवन्तौ द्वौ सञ्जातौ ।
तत्राऽपि मङ्गलकलश ! त्वया परद्रव्येण धर्मव्ययः कृत आसीदत एषा त्वया भाटकेन परिणीता । अनया च त्रैलोक्यसुन्दर्या हास्येनैव सख्यै दूषणं दत्तमासीदतोऽत्रैषा शुद्धाऽपि कलङ्किता क्षमा च याचितेति सद्यस्तत कलङ्कादुत्तीर्णा । तथाऽखण्डशीलत्वात् द्वयोरपि युवयोरत्र पुनरपि सङ्गमो जातः" ।
एवं गुरुभगवन्मुखात् स्वीयपूर्वभववृत्तश्रवणेनोहापोहं कुर्वतोर्द्वयोरपि जातिस्मरणं * सञ्जातम् । अल्पमपि दुष्कृतमनिष्टफलदायि भवतीति ज्ञात्वा द्वावपि भृशं खिन्नौ । तदा ॐ सूरिस्तौ सान्त्वयति स्म यद् - "भो ? मा खेदमनुभूतम् ! अद्याऽपि न किञ्चिद् विनष्टम् ।" तदा ताभ्यां पृष्टं- "प्रभो ! कथमीदृशं दुष्कर्म क्षयं प्राप्यते ?" गुरुणोक्तं"संसारसागरोत्तरणतरी प्रव्रज्यां श्रयथः । तस्या आश्रयणेन वज्रतुल्यमपि कर्म सर्वथा चूर्णीभूय विनंक्ष्यति । अयमेवैक उपायोऽस्ति कर्मक्षयार्थम् ।" तदा मङ्गलकलशोऽपि "यथाऽनुशास्ति भगवान्" इत्युक्त्वा नगरं गतः । तत्र मन्त्रि-सामन्तादीनापृच्छ्य स्वपुत्रं जयशेखरं राज्येऽभिषिक्तवान् । ततो गुरुसमीपं गत्वा द्वाभ्यामपि मङ्गलकलशत्रैलोक्यसुन्दरीभ्यां विज्ञप्तिः कृता - "प्रभो ! प्रव्रज्यादानेनाऽनुगृह्णात्वावाम् । येन द्रुतमेव सर्वकर्मणां क्षयं कृत्वा शाश्वतं सौख्यं भजावहै ।" गुरुणाऽपि यथाविधि दीक्षा प्रदत्ता ताभ्याम् ।
ततो द्वावपि निरतिचारं व्रतानि पालयित्वाऽऽयुःक्षये पञ्चमे कल्पे देवौ सञ्जातौ । ततो भवत्रयपर्यवसाने मोक्ष प्राप्स्यतः ।।
(श्रीदेवचन्द्रसूरिविरचितस्य प्राकृतभाषामयस्य ‘सिरिसंतिनाहचरिय'स्स आधारेण सङ्कलितैषा कथा ।)
११५ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138