Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ASINIST
मङ्गलकलश:
मुनिकल्याणकीर्तिविजयः अस्ति किलेह भरतखण्डे सर्वेषां मानवीय-सामाजिक-राष्ट्रियव्यवहाराणां प्रथमतया प्रवर्तकानां प्रथमतीर्थकर-परमेष्ठिप्रवरश्रीआदिनाथभगवतां सुतस्य श्रीअवन्तिवर्धनस्य नाम्ना विश्रुतोऽवन्तीजनपदः । तत्र च सकलपुराधिपत्यं बिभ्राणा राजते उज्जयिनी नाम नगरी।
या च-वापी-तटाकोद्यानैर्मण्डिता, हट्ट-प्रपा-सभादिभिर्विराजिता, तथा परनरालङ्घितया का स्वच्छभावया महासतीसदृक्ष्या खातिकया वेष्टिता, तथा, उत्तुङ्गेन सुवृत्तेन परोपद्रवहारिणा सज्जनेनेव शुद्धेन प्राकारोत्तमेनाऽलङ्कृता शोशुभ्यते ।
तां च - वैरिकरिणां सिंह इव वैरिसिंहो नृपावतंसः शास्ति । तस्य च सौम्य5 तया चन्द्रिकेवाऽस्ति चन्द्रमुखी शीलशालिनी सोमचन्द्रा नाम राज्ञी ।
अथ तस्यां नगर्यां नृपाभिमतः पूर्णगुणालयो विनीत उपशान्तमानसो शीलयुतो धार्मिको जिनेन्द्र-साध्वाराधनतत्परो धनदत्तो नाम श्रेष्ठी वसति । तस्य च शील-सत्य
नयोपेता सुरूपा चारुभाषिणी सर्वत्रोचितकर्तव्यरता सत्यभामा नाम भार्याऽस्ति । धन3. कनक-सुवर्णमणि-मुक्तादिभिर्धान्य-भवन-वाहनादिभिश्चैश्वर्यशालिनोरपि तयोर्मध्यमे वयस्यपि
अपत्यसुखं नाऽस्ति । यद्यपि भगवति धर्मे प्रारब्धे च पूर्णश्रद्धावन्तौ तौ सहजतया जीवतस्तथाऽप्येकस्यां निशि श्रेष्ठिनश्चिन्ता जाता यद् - 'अस्माकं सर्वमपि वैभवं पुत्रेण विना निरर्थकम् । को भवष्यिति सर्वस्यैतस्य भोक्ता ? को वा वार्धक्ये पालयिष्यति
नौ ?' अनया चिन्तया तस्य निद्रा नाऽऽयाति । - चिन्ताकुलं तं दृष्ट्वा सत्यभामा पृच्छति-स्वामिन् ! किमिति भवान् राज्यभ्रष्ट
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138