Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ राजपुत्र इव, यन्त्रबद्धमदमत्तमतङ्गज इव, द्यूतपराजितमहाद्यूतकार इव, विद्याभ्रष्टविद्याधर इव, परिक्षीणायुर्देवेन्द्र इव शोकाकुलः परिलक्ष्यते ? किं केनाऽपि मुषितो वा ? राज्ञाऽपमानितो वा ? महाजनो वा पराङ्मुखः ? निधानं वाऽङ्गारे पर्यस्तम् ? बालिकया * वा कयाऽपि चित्तं चोरितं भवतः ? यदि नाऽनाख्येयं तर्हि कथ्यताम् । भोः ! तवाऽप्यनाख्येयं किञ्चिदस्ति वा मम ? तथा नाऽन्यत् किञ्चित् दुःखमपि विद्यते मम । केवलमेकैव चिन्ता चित्तं पीडयति यत् - क एतस्य वैभवस्य भोक्ता भविता ? तथा को नौ वार्धक्ये पालयिता ? इति । अनयैव चिन्तया चिन्तितोऽहं । * नाऽन्यत् किञ्चिदपि चिन्तयितुं पारये-इति श्रेष्ठिना कथितम् ।। एतच्छ्रुत्वा तयोदितं यत् - स्वामिन् ! यद्यप्यावां पुण्यशालिनौ तथाऽपि कस्यचित् पुरा कृतस्य पापस्यैतत् फलं येनाऽऽवयोरपत्यसुखं नाऽस्ति । अतस्तस्य पापस्य शुद्ध्यर्थं नौ जिनोदितधर्माराधनं, जिनेश्वराणां पूजादिविधानं, गुरुभक्तिकरणं तथा सार्मिकवात्सल्यं, दीनानाथादिभ्यो दानं, प्रशस्तपुस्तकलेखनमित्यादि-शुभकार्येषु स्वीयधनमुपयोयुज्यावहे। एवंकरणेन पापशुद्धिस्तावद् भविष्यत्येव । ततो धर्मप्रभावेन यदि सुतो भावी तदा शोभनम् । अन्यथाऽपि पुण्यप्राग्भारस्तु वर्धिष्यत्येवेति न काऽपि हानिः । निशम्य स्वभार्यायाः सुवचांसि श्रेष्ठी ह्यत्यन्तं प्रसन्नो जातः । स तदुक्तं सर्वमपि विशेषेण कर्तुमारब्धः । विशेषतो जिनपूजार्थं स मालाकारान्तिकं गत्वा तस्मै च प्रभूतं धनं दत्त्वा प्रत्यहं भूयांसि सुगन्धीनि सुन्दराणि च पुष्पाण्यवचेतुं कथयति स्म । तेनाऽपि * प्रतिपन्नम् । ततः प्रत्यहं प्रातःसमये स पुष्पभाजनं गृहीत्वाऽऽरामं गत्वा मालाकारेणोच्चितानि मनोहराणि पुष्पाण्यानयति स्म । स्वकीये गृहजिनालये चाऽतीव भक्त्या जिनेश्वराणां पूजां करोति स्म । तदनु यथाविधि चैत्यवन्दनादि करोति स्म । ततो निवृत्तो गुरुभगवदन्तिकं गत्वा गुरुवन्दनं करोति स्म प्रत्याख्यानं च गृह्णाति स्म । ततो धर्मकथां श्रुत्वा गृहं गत्वा काले सुपात्रदानं दीनादीनामनुकम्पनं कृत्वा पश्चादेव भोजनं करोति स्म। वाणिज्यव्यवहारादिकमपि नीतियुक्तं करोति स्म । एवं यद् यच्छोभनं सुकृतं च, तत् सर्वं प्रसन्नमनसा करोति स्म । एवं करणेन तस्य पापकर्म विगलितम् । पुण्यपुञ्जः स्फूर्तिमगच्छत्, , तेन च तुष्टा शासनदेवता 'पुत्रस्ते भविष्यती'ति वरं ददाति स्म । ९६ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138