Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 122
________________ - - कदाऽपि नौ वियोगो भविता ।" __ ततो द्वावपि सिंहान्वितौ नृपास्थानं गतौ सभासमक्षमेव च सर्वमपि स्वीयवृत्तान्तं * निवेदितवन्तौ । तद्वृत्तं श्रुत्वा राजा सकला पर्षच्चाऽत्यन्तं विस्मिता जाता "अहो ! दैवस्याऽचिन्त्या गतिः !" इति कथितवन्तश्च । तदा मङ्गलकलशेन - "अग्रे आवाभ्यां किं कर्तव्यम् ? अहमेव तस्या भर्ता स वा ?" इति राज्ञे पृष्टम् । राज्ञाऽपि सर्वैर्मन्त्रिसामन्तादिभिर्विमर्श कृत्वा - "एषा तवैव पत्नी" इति समनुज्ञातम् । तामपि च त्रैलोक्यसुन्दरी - "वत्से ! अयमेव ते दैवप्रदत्तो भर्ता । अनेनैव सह त्वं पुण्यसौख्यमनुभव" इति अनुरुद्धवान् । तयाऽपि "महान् प्रसादो भवता"मित्यङ्गीकृतम् । ततो राज्ञा सा स्वसुतात्वेन प्रतिपद्य वस्त्राभरणादिभिर्भूषिता । मङ्गलकलशमपिपुण्यवान्-इति श्लाधित्वा वस्त्रादिभिः सत्कृतवान् । तावता धनदत्तेनाऽपि पुत्रवधूं गृहं नेतुं राज्ञे प्रार्थितम् । राज्ञा सहर्षं तदनुमत्य कथितं "भोः ! इदमपि नूतनं गृहं - अस्या निमित्तं कारितमधुना तवैव । अतस्तत्रैव सकुटुम्बः संवस ।" तेनोक्तं - "भवदादेशः प्रमाणम् । किन्तु मङ्गलकार्यार्थमधुना स्वगृह एव नयामि ।" ततो धनदत्तान्वितौ तौ गृहं गतौ । श्रेष्ठिनाऽपि तयोः प्रवेशनिमित्तं वर्धापनकं ॐ कृतम् । हृष्टया सत्यभामयाऽपि महताऽऽडम्बरेण वधू-वरौ गृहं प्रवेशय्य कौतुकमङ्गलादि कृतम्। ततः सर्वेऽपि राजप्रदत्ते सप्तभूमिके प्रासादे संवसितुं गतवन्तः । अथ त्रैलोक्यसुन्दरी सिंहसामन्ताय कुमारवेषं सैन्यं च प्रत्यर्प्य ससन्देशं पितृसकाशे : चम्पां प्रेषितवान् । सोऽपि सबाष्पनयनो गद्गदहृदयश्च तदाज्ञां गृहीत्वा चम्पां प्रति प्रस्थितः प्राप्तश्चाऽनवरतप्रयाणै राजसकाशे । आस्थाने स्थितं चिन्ताकुलं राजानं प्रणम्य वेषादिकं 8 समर्प्य च सर्वमपि तस्या वृत्तान्तं कथयामास । श्रुत्वा तत् हर्षाकुलो राजा तां प्रशंसति , स्म- "अहो ! तस्या बुद्धिमाहात्म्यं विज्ञानकौशलं क्षान्तिः शीलरक्षणं भर्तृभक्तिर्दोषभयं च । न सा मम कन्या किन्तु मूर्तिमती समुज्ज्वला कीर्तिः । तादृश्यां मम दुहितरि किं किं न सम्भाव्यते ? भोः सिंह ! त्वं पुनरपि उज्जयिनीं गत्वा सत्वरं भर्तृसमेतां तामत्र समानय ।" सिंहः पुनरपि उज्जयिनी प्रति प्रस्थितः । कतिचिद्दिनस्तत्र प्राप्य कुमार्यै पितुराज्ञां ** १०९ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138