Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 120
________________ राजकुमारामन्त्रणं प्राप्य हृष्ट उपाध्यायः सर्वैश्छात्रैः सह निश्चिते दिवसे तद्गृहं प्राप्तः। अनयाऽपि सर्वा भोजनसामग्री प्रगुणीकृता । तत आगतान् सर्वान् सत्कारयन्ती सा श्रेष्ठतं दृष्ट्वोपलक्षितवती यदयमेव मे भर्तेति । ततोऽन्यान् सर्वान् भोजनार्थमुपवेश्य परिजनाय परिवेषणार्थमादिष्टवती, इमं च स्वीये आसन एवोपवेश्य छत्रादि धारयित्वा च स्वीये स्थाले स्वयमेवोत्तमाहारं परिवेषितवती भोजितवती च । भोजनानन्तरं च सम्माननार्थं भाण्डागारिकद्वारा सर्वेभ्यो यथोचितं वस्त्रालङ्कारादि दापितवती, अस्मै च स्वीयवस्त्रादि स्वयमेव दत्ते स्म । एतद् विलोक्य 'अहो ! अनेनैकेन वयं सर्वेऽप्यपमानिता:' इति चिन्तयन्तश्छात्रा विमनस्का: सञ्जाताः । ' तावताऽनयोपाध्यायाय निवेदितं यद् “एतेभ्यश्छात्रेभ्यः कश्चिद् यदि रम्यं कथानकं श्रावयेत् तदा वरम् ।” उपाध्यायेनाऽपि छात्रेभ्यः कथितं कथानककथनाय । असूयाप्रेरितैश्छात्रैश्च मङ्गलकलशमेव अग्रेकृत्य कथितं यद् - " अयमेव कथयतु कथानकं यतोऽस्यैवाऽऽदरोऽत्र क्रियते ।" अत उपाध्यायेनाऽऽज्ञप्तो मङ्गलकलशः कुमारनेपथ्यां तां पृष्टवान् यत् “चरितं कथयेयं कल्पितं वा ?" तयोदितं "चरितमेव कथय, किं कल्पितेन ?" तस्याः साभिप्रायं वचः श्रुत्वा चम्पाया आगतोऽयमिति च स्मृत्वा शङ्काकुलो मङ्गलकलशस्तां सम्यङ् निरूप्याऽवगतवान् यद् 'एषा सैव नृपकन्या या मया चम्पायां विवाहिताऽऽसीत् । केनाऽपि कारणेनेहाऽऽगताऽनेन रूपेणे'ति । 'भवतु यः कश्चिदपि सः । कथयामि मत्कथानकं येन सर्वमपि स्वयमेव स्फुटीभविष्यति' इति विचिन्त्य च स पुष्पानयनगमनत आरभ्य विवाहानन्तरमुज्जयिनीगमनपर्यन्तं सर्वमपि स्वीयवृत्तान्तं सरसं वर्णितवान् । तन्निशम्य सा कृत्रिमकोपं प्रदर्श्याऽऽ ऽ चुक्रोश " रे ! रे ! गृहाण गृहाणेममसम्बद्धप्रलापिनम् । किं नश्चम्पायामप्येतादृशं घटेत ? किमस्माकममात्य ईदृशस्याऽकार्यस्य विधाता ? गृहाणेमं मृषाभाषिणम् ।" तच्छ्रुत्वा भटा द्रुतमेव तद्ग्रहणार्थमागताः । तांश्च दृष्ट्वा मङ्गलकलशं मुक्त्वा भयद्रुत उपाध्यायश्छात्रैः सह सत्वरं ततो निर्गतः । एषाऽपि भटान्निवार्य तं प्रासादस्योपरितने तले नीतवती प्रधानसिंहासने च गौरवेणोपवेशितवती । ततः सिंहनृपमाहूय “तात ! एष स येनाऽहं चम्पायामूढा । तदनु यद् घटितं तत्तु भवता श्रुतमेव । ततो मया तिरस्कृते मन्त्रिपुत्रे मन्त्रिणा ममोपरि कलङ्कमारोपितम् । अधुना भवतोऽग्रे सर्वमपि स्फुटमस्ति । अतो भवानेव मम यत्कर्तव्यं निरूपयतु येन मे Jain Education International - - १०७ For Private & Personal Use Only ********* www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138