Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 116
________________ मङ्गल - सत्कारादिपूर्वं गृहं प्रवेशितः सवधूर्मङ्गलकलशः क्रमेण वासगृहे प्रविष्टः । द्वावपि पर्यङ्क उपविष्टौ । तावता मन्त्री तमिङ्गितेन ततो निर्गन्तुमादिशति स्म । असावपि सङ्केतं लब्ध्वा मुखादिक्षालनमिषेण बहिर्गन्तुं प्रवृत्तः । तदा साऽपि राजकन्या तदनुपदमेव सुवर्णालुकं जलपूर्णं गृहीत्वा सहैवाऽऽगता । मुखादि प्रक्षाल्य स पुनरपि तया सार्धं वासगृहं प्राप्तः । ततो बहिर्गमनायोपायमन्विष्यन्तं व्यग्रचित्तं तं दृष्ट्वा तया पृष्टं “प्रिय ! किं त्वां क्षुद् बाधते ।" रहस्यमकथयता तेनाऽपि " आम्" इत्युक्तम् । अतोऽनया स्वमातृगृहाद् मोदका आनाय्य तस्मै परिवेषिताः । ततो द्वावपि तत् खादितवन्तौ । आचमनं कुर्वताऽनेन स्वं ज्ञापयितुं "उत्तमा इमे मोदकाः, किन्तु उज्जयिनीनीरयुता यदि स्युस्तदा शोभनतरम्" इति कथितम् । साऽप्यकाण्डं तत् श्रुत्वा मनस्येव हसित्वा चिन्तितवती यत् "प्रायोऽस्या मातुलगृहमुज्जयिन्यां भवेत्, अथवा बाल्ये स तत्र पर्यटितः स्यात् इति स एवं कथयति ।" ततस्तयाऽनुरागातिरेकेण मधुरवचनानि भणन्त्या तस्मै ताम्बूलं दत्तम् । यावदसौ तच्चर्वयन् तया सह संलापं करोति स्म तावत् सुबुद्धिना तत्परिजनैश्च पुनरपि तस्य ततो निर्गन्तुं सञ्ज्ञा कृता । तदभिलक्ष्य किञ्चिद्विचिन्त्य च मङ्गलकलशस्तां कथयति स्म यद् "अहं देहचिन्तार्थं गच्छामि, त्वं क्षणानन्तरं सेवकेन सह जलं प्रेषये" ति । एवमुक्त्वा द्रुतमेव स मन्त्रिगृहान्निर्गत्य तदनुचरैः सह राजदत्तं वस्तुसमूहं रथतुरगादिकं च यत्र स्थापितमासीत् तत्र प्राप्तः । स तस्माद् वस्तुजातात् सारतरं रथे संगोप्य तुरगानपि रथे संयोज्य शेषं द्रव्यादिकममात्याय देयमिति सूचयित्वा रथमारूढः । ततो मन्त्रिनरात् स्वनगरस्य मार्गं ज्ञात्वा तुरगान् प्रेरितवान् । वायुवेगा जात्याश्च तेऽश्वाः स्तोकदिनैरेव तमुज्जयिनीं प्रापितवन्त: । - उज्जयिनीं प्राप्य मङ्गलकलशः सत्वरं स्वगृहं गत्वा सरथो यावदन्तः प्रविशति स्म तावद् वस्त्रालङ्कारादिभिर्भ्राजिष्णुं तं दृष्ट्वाऽनुपलक्षितवती तन्माता तं कञ्चिद्राजपुत्रं मत्वा कथितवती - " भो राजपुत्र ! अत्र नाऽस्ति कश्चिन्मार्गः । कथमन्तः प्रविशसि ? " स तु " अत्रैव मार्गोऽस्ति ।" इति कथयन् हठादन्तः प्रविष्टः । अतः सा द्रुतं श्रेष्ठिनमाहूय - " असौ कोऽपि निवारितोऽपि अस्मद्गृहे प्रविशति" इति कथयति स्म । तावताऽसावपि रथादुत्तीर्य पित्रोः पादपतनं कृत्वा पितुश्च कण्ठे विलग्य गाढं रोदिति स्म । ततः पिताऽप्येनमुपलक्ष्य गद्गदकण्ठो रोदितवान् । साऽपि तन्मातोच्चै रुरोद । Jain Education International १०३ For Private & Personal Use Only စားသား www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138