Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नितरां कठिनमस्ति । तथापि पङ्कजवदस्मिन् मलिने वातावरणे दुष्टालम्बनमध्ये च स्थित्वैवाऽस्माभिः सन्मार्गे गन्तव्यं, लक्ष्यं प्रापणीयं च, तथा सद्गुणरूपसुगन्धमयं जीवनं करणीयमस्ति ।
अस्मिन् वातावरणे स्वचिन्तनमात्मकल्याणचिन्तनं चैव श्रेयस्करमस्ति, तदर्थमुचितविवेक आवश्यकः । विवेकमग्रे कृत्वैव सर्वमपि कार्यं करणीयम् । कस्मिन्नपि कार्यकरणे एतन्मे हितकरमुचितं चाऽस्ति न वेति विचिन्त्य सविवेकं व्यवहरणीयम् । प्रतिक्षणं जागृतेन भवितव्यम् । एवं त्वं निरीक्षणशक्तिं विचारधारां च दृढय । यदि, स्वजना मित्राणि च स्वार्थतया दुष्टाचरणं कुर्युः ततो मयाऽपि तदेव करणीयमिति नाऽवश्यकम् । किन्तु यत्र कुत्रचिदपि शुभकथनं सगुणांश्च पश्ये: तहि ते ग्रहणीयाः । तथा दृष्टिपथमायान्तो दुर्गुणा उपेक्षणीयाः । न कदाचिदपि केभ्यश्चिदपि तेषां तदुर्गुणाः कथनीयाः, तथा तान् जनान् प्रति नाऽरुचिट्टेषश्च करणीयः, किन्तु "कर्मणो गहना गतिरि"ति विचिन्त्यम् । अन्यथा परदोषदर्शनेन तेषां यत्किमपि स्यात्, किन्त्वस्माकं त्वात्मिकदृष्ट्या हानिर्भवत्येव । कर्मराजस्य सत्तायां हस्तक्षेपमकृत्वा केवलं साक्षिभावेनैव सर्वं दर्शनीयम् । अन्येषां दुर्गुणाः स्वचित्ते यदि चिन्त्यन्ते तर्हि मनसि कालुष्यमुद्भवति, किन्तु यदि नाम ते दुर्गुणा उपेक्ष्यन्ते तर्हि का चिन्ता ? कथं मनो मलिनं स्यात् ? अतो दुर्गुणेभ्यो दुर्गुणिजनेभ्यो दूरत एवाऽञ्जलिर्देया ।
किञ्च-अस्मिन् वातावरणे सज्जनानां संयोगो दुःशकोऽस्ति । ततस्त्वयैवैतादृशं वातावरणं विरचनीयं यद्, एतस्य मलिनवातावरणस्य दुष्टजनानां च प्रतिच्छायैव चित्तवृत्तौ न पतेत् । ततो नाऽऽवश्यकं न शक्यं च वातावरणस्यैतेषां दुष्टजनानां च परिवर्तनं किन्त्वावश्यकं शक्यं चैतदेव यत् - "स्वदृष्टेः परावर्तनम्" । अस्माकं मान्यताकदाग्रह-चातुर्यभान-कलाभिमानेत्यादिकमेव वस्तुतोऽस्माकं विकासे बन्धनरूपमस्ति । अतस्तत्सर्वं बन्धनं विच्छिद्योर्ध्वं गन्तुमेव प्रयतितव्यम् ।
पश्य, निरभ्रं गगनम् । तस्य न किमपि बन्धनमावरणं चाऽस्ति । तथैव त्वमपि बन्धनादिकं विहायाऽन्यानदृष्ट्वैव सात्त्विकतया प्रामाणिकतया च सत्यमार्गेण गच्छ । त्वं तव जीवनस्य स्वाम्यसि । अतो निष्ठया त्वं सत्यस्य मार्गे प्रयातुं स्वतन्त्रोऽसि ।
Jain Education International
८९ For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138