Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'पश्चादन्येष्वपि राज्येषु शाखाप्रतिशाखानां स्थापनां कृत्वा पुष्पविक्रयणोद्योगं वर्धापयतु नाम । सम्पूर्णेऽप्यमेरिकादेशे उद्योगान् स्थापयतु । तेन च भवतो धनराशिरपि पर्वतोपमाना भविष्यति' - इति सोऽवक् ।
पुनरपि वृद्धस्तमेव प्रश्नमुपास्थापयत् - 'क्षाम्यन्तु महाभागाः ! किन्तु तदनु किम्?'
हेन्रीफोर्ड्स उवाच - न किञ्चित् ! तावदेव । एवं कृत्वा पश्चात् भवान् विश्रान्तिसुखमनुभविष्यति । सत्यं खलु ? ।'.
__एतदाकर्ण्य स वृद्धः प्रत्युदतरत् - 'महोदय ! तत्त्वहमधुनाऽप्यनुभवाम्येव । तदर्थं चेयत्करणीयस्याऽऽवश्यकतामेव न पश्यामि । यदप्यस्ति तत्तु पर्याप्तमेव, तेन च सुख्येवाऽहम्'।
एतेन च प्रत्युत्तरेण हेन्रीफोमहोदयो लज्जामनुभूतवान् ।
ये विजितात्मनो नयनिष्ठाः जाग्रति लोकं रक्षितुकामाः । स्याग्लियतं तेषां वसुधेयं रुक्मवती मृन्मय्यपरेषाम् ॥
(छन्दोनुशासने श्रीहेमचन्द्राचार्यः)
>>>>MIL
९२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138