Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ था ॥ सन्तोषान्न परं सौख्यम् ॥ मुनिरत्नकीर्तिविजयः 'हेन्रीफोई' इत्येष ख्यातः कारयानोद्योगस्य स्थापक आसीत् । प्रत्येकं शुक्रवासरे सन्ध्यासमये स्वकार्यालयात् प्रत्यागच्छन् स एकस्य पुष्पविक्रेतुरापणात् पत्न्यै उपायनीकर्तुं मनोहरं शोभनं पुष्पगुच्छं क्रीणाति स्म । एष तस्य क्रम आसीत् । सततं सर्वत्र च विकासमेव लक्ष्यीकृत्य विचारयन् हेन्रीफोमहाशय एकदा तदापणस्य वृद्धं स्वामिनं स्वविचारमुक्तवान् यत्- "आ बहोः कालादहं भवत आपणात् क्रममनुल्लध्य प्रत्येकं शुक्रवासरे सन्ध्यासमये पुष्पगुच्छं क्रीणामि । भवतः पुष्पाणि प्रत्यग्राणि सुवासितानि च भवन्ति । तथा भवनिर्मितः पुष्पगुच्छोऽप्याकर्षको मनआह्लादकश्च भवति । अतोऽहं विचारयामि यद् भवतोऽस्याऽऽपणस्य काचिदन्याऽपि शाखा स्याद् येनाऽधिको धनलाभः स्याद्" इति । एतच्छ्रुत्वाऽऽपणस्य स्वाम्यवदत् - 'सत्यमुक्तं भवता, किन्तु ततः परं किम् ?' 'अहो ! तदनु डेट्रोइट्राज्येऽपि प्रतिस्थानं भवता शाखाः स्थापनीयाः । तेन तु धनस्याऽऽयस्ततोऽपि वृद्धिं गमिष्यति' - स उवाच । 'पश्चात् ?' - वृद्धोऽप्रश्नयत् ।। Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138