Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पत्रम्
नमो नमः श्रीगुरुनेमिसूरये ॥
आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु ।
तव कुशलं कामये ।
दक्षिणप्रदेशस्य विविधानुभवान्वितां दीर्घं विहारयात्रां समाप्य गूर्जरदेशे आगतवन्तो वयं सर्वेऽपि । तस्यां विहारयात्रायां मयैकदा लघुः कासारो दृष्टः । तत्र पङ्कस्थितमपि स्फटिकवदुज्ज्वलं रमणीयं च पङ्कजं मयाऽदर्शि । तस्य सौन्दर्यं निरीक्ष्य चित्ते प्रसत्तिः सञ्जाता । दशक्षणान् तत्रैव स्थितवानहम् । पङ्कजस्य वैचित्र्यं वीक्ष्योत्पत्तिः कुतः ! स्थानं कुत्र ! एवं सत्यपि तस्य स्वरूपं जीवनं च कीदृशं सुन्दरं खलु ? इति मनस्यूहापोहो
जातः ।
Jain Education International
मुनिधर्मकीर्तिविजयः
बन्ध ! अस्माकं जीवने प्रकृतिर्न केवलं सहयोगिनी, अपि तु सा बोधदायिनी चित्ताह्लादकारिणी चाऽप्यस्ति । चन्द्रस्तारकं वृक्षो मेघः पुष्पं फलं विद्युच्चेत्यादीनि सर्वाण्यपि प्रकृतेरङ्गानि सन्ति । अस्माकं परमसौभाग्यं यद्, जगति सर्वतस्तान्यङ्गानि विराजन्ते । प्रतिक्षणं तान्यस्मभ्यमानन्दं बोधं च ददन्ति, यदि विकसिता गुणग्राहिणी च दृष्टिः स्यात् । नगरवासिनां त्वादृशानां जनानां कृते कदाचित् कारुण्यमुत्पद्यते यतो भवन्तो धनैकलक्ष्याः सुखप्राप्तिमात्रप्रयत्नाश्च प्रकृतेः सौन्दर्याद् विमुखीभवन्ति । प्रकृतेदर्शनमपि केभ्यश्चिदेव रोचते तथा येभ्यो रोचते, तेषां जीवनमपि प्रकृतेः सौन्दर्यवद् विविधरङ्गयुतं रमणीयं दर्शनीयं शान्तियुतं च भवति । अहमपि तत् पङ्कजं दृष्ट्वा शान्तिमानन्दं चाऽनुभवन् स्वस्थानं गतवान् । तदा मार्गे येऽनेके विकल्पाः सञ्जाताः, तान् वर्णयामि ।
८५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138